________________
एजते-कम्पते एजुङ् कम्पने इति वचनात् वेयइति व्येजते विविधं कम्पते चलइत्ति स्थानान्तरं गच्छति । फंदइत्ति स्पन्दते, किंचिच्चलति स्पदि किञ्चिच्चलने इतिवचनात् , अन्यमवकाशं गत्वा पुनस्तत्रैवागच्छतीत्यन्ये, घट्टइत्ति सर्वदिक्षु चलति, पदार्थान्तरं वा स्पृशति, खुन्भइत्ति क्षुभ्यति पृथिवीं प्रविशति, क्षोभयति वा, पृथिवीं, बिभेति वा, उदीरइत्ति प्राबल्येन प्रेरयति, पदार्थान्तरं प्रतिपादयति वा, शेपक्रियाभेदसंग्रहार्थमाह-तं तं भावं परिणमतित्ति उत्क्षेपणावक्षेपणाकुश्चनप्रसारणादिकं परिणाम यातीत्यर्थः, एषां चैजनादिभावानां क्रमभावित्वेन सामान्यतः सदेति मन्तव्यं, न तु प्रत्येकापेक्षया, क्रममाविमा युगपदभावादिति, तस्स जीवस्स अंतित्ति मरणान्ते, अन्तकिरियत्ति सकलकर्मक्षयरूपा, आरंभइत्ति आरभते पृथिव्यादीनुपद्रवयति, सारंभइत्ति संरभते तेषु विनाश-संकल्पं करोति समारंभइत्ति समारभते तानेव परितापयति, आह च-“संकप्पो संरंभो परितावकरो भवे समारंभो । आरंभो उद्दवओ सम्वनयाणं विसुद्धाण ॥१॥” इदं च क्रिया क्रियावतोः कथंचिदभेद इत्यभिधानाय तयोः समानधिकरणतः सूत्रमुक्तम् , अथ तयोः कथंचिद्दोऽप्यस्तीति दर्शयितुम्-पूर्वोक्तमेवार्थ व्यधिकरणत आहआरंमेइत्यादि, आरंभे अधिकरणभूते वर्तते जीवः, एवं संरंभे समारम्भे च, अनन्तरोक्तवाक्यार्थद्वयानुवादेनप्रकृतयोजनामाह-आरंभमाणः संरभमाणः समारभमाणो जीव इत्यनेन प्रथमो वाक्यार्थोऽनूदितः, आरंभे वर्तमान इत्यादिना तु द्वितीयः, दुक्खावणयाए इत्यादौ ताशब्दस्य प्राकृतप्रभवत्वात् दुःखापनायां मरणलक्षणदुःखप्रापणायाम् , अथवा इष्टवियोगादिदुःख-हेतुप्रापणायां, वर्तत इति योगः, तथा शोकापनायां | देन्यप्रापणायां जूरावणतापत्ति शोकातिरेकाच्छरीरजीर्णताप्रापणायां तिप्पावणयापत्ति तेपापनायां 'सिपृ ष्टेप क्षरणार्थी' इति वचनात् शोकातिरेकादेवाश्रुलालादिक्षरणप्रापणायां पिट्टावणतापत्ति पिट्टनप्रापणायां ततश्च परितापनायां शरीरसन्तापे वर्तते, क्वचित् पठ्यते दुक्खावणयाए इत्यादि, तच्च व्यक्तमेव, यच्च तत्र किलामणयाए उद्दावणयाप इत्यधिकमभिधीयते तत्र किलामणयापत्ति ग्लानिनयने उद्दावणयापति