________________
***
**
श्रितोत्कालितसमास्वादितं तदपि अतिविगर्हितं जनमीढं नवति अतिशयेन निन्दनीयं जनानां मनुष्यादिलोकानां मीदं । मूत्रं नवति जायते तबरीरं कथं पूतं मन्यसेऽतो मा पूतं मन्यस्वेत्यर्थः॥६॥
केवलमलमयपुजल निचये अशुचीकृतशुचिनोजनसिचये।
वपुषि विचिन्तय परमिह सारं शिवसाधनसामर्थ्यमुदारम् , जाण ॥७॥ व्याख्या-हे श्रात्मन् इह केवलमलमयपुजलनिचये इह प्रत्यक्षमनुजूयमाने केवलमसमयपुजसनिचये केवलं मात्र मलमया मलमात्रस्वरूपाः पुजलाः परमाणुसमुदायास्तेषां निचयो राशिर्यत्र तत्तथा तस्मिन् । अशुचीकृतशुचिनोजनसिचये अशुचीनि थपवित्राणि कृतानि विहितानि शुचीनि स्वरूपसुन्दराणि नोजनानि घृतपूर्णादीनि सिचयाश्चीनांशुकादिपवरवसनानि येन तत्तथा तस्मिन् वपुषि शरीरे सारं प्रधानन्नावं उदारं सर्वेन्यः श्रेष्ठं शिवसाधनसामर्थ्य जीवस्य मोर-४ संपादनी शक्तिरेवैकाऽस्तीति चिन्तय पर्यालोचय, नान्यदित्यर्थः ॥ ७॥
अथोपसंहरन्नाह
येन विराजितमिदमतिपुण्यं तञ्चिन्तय चेतन नैपुण्यम् ।
विदादागममधिगम्य निपानं विरचय शान्तसुधारसपानम् , जा० ॥७॥ ॥ इति श्रीशान्तसुधारसगेयकाव्येऽशौचनावनाविनावनो नाम षष्ठः प्रकाशः॥