________________
व्याख्या–उपकारसारं उपकारोऽन्येषामपि हितसुखादिसंपादनस्वभावः स सारः प्रधानो यस्य स तथा तं । संतोषसत्यादिगुणप्रसरं संतोषो येन तेन यथा तथा न्यून पूर्णादिना संतुष्टिजवनस्वभावः, सत्यं हितमितयाथार्थ्यादिवचनं, आदिपदात् क्रमार्जवमार्दवनिःस्पृहत्वादयो ग्राह्याः, त एव गुणाः स्वपरतिफलजीवधर्माः तेषां यः प्रसरो विस्तारस्तं । तथा वदन्यं दातृत्वं वैनयिकप्रकारं विनयो नम्रवृत्तिः स एव वैनयिकस्तत्प्रकारप्राप्तं गुणं । मार्गानुसारी अहोऽस्य मिथ्याशोऽपि मोक्षमार्गस्यानुकूलता वर्तते इति कृत्वाऽनुमोदयामः ज्ञात्वा हृदयेन सानन्दा जवाम इत्यर्थः ॥ ९ ॥ ( स्रग्धरावृत्तम् ) जिह्ने प्रह्वीजव त्वं सुकृतिसुचरितोच्चारणे सुप्रसन्ना नूयास्तामन्य कीर्तिश्रु तिर सिकतया मेऽद्य कर्णौ सुकर्णों । वीक्ष्यान्यप्रौढ लक्ष्मीं डुतमुपचिनुतं लोचने रोचनत्वं संसारेऽस्मिन्नसारे फलमिति भवर्ता जन्मनो मुख्यमेव ॥ ६ ॥
व्याख्या - हे जिह्वे हे रसने त्वं स्वसौभाग्यवृध्ध्यै सुप्रसन्ना कस्यचिदप्यपवादाद्युच्चरणदोषमलवर्जितसंतुष्टा सती । सुकृतिसुचरितोच्चारणे सुष्ठु शोजना कृतिः पवित्रधर्मः पुण्याचरणं चास्ति एषामिति सुकृतिनस्तेषां यानि सुचरितानि दानशीलतपःसंयमज्ञानवैराग्यादिसमाचरणानि तेषां यमुच्चारणं सानन्दजपनं तस्मिन्नदो निशकरणे प्रहृीजव नम्रा