________________
- यमकवर्णसदृशवर्णानीत्यर्थः, 'यमकौ च' यमकनामानौ च तत्र - तयोर्यमकपर्वतयोः स्वामित्वेन द्वौ देवौ महर्द्धिको यावन्महाभागौ पल्योपमस्थितिको परिवसतः, तौ च तत्र प्रत्येकं चतुर्णां सामानिकसहस्राणां चतसृणामप्रमहिषीणां सपरिवाराणां तिसृणामभ्यन्तर| मध्यमबाह्यरूपाणां यथासङ्ख्यमष्टदशद्वादशदेवसहस्रसङ्ख्याकानां पर्षदां सप्तानामनीकानां सप्तानामनीकाधिपतीनां षोडशानामा सरक्षदेवसहस्राणां 'जमगपव्वयाणं जमगाण य रायहाणीण' मिति स्वस्य स्वस्य यमकपर्वतस्य स्वस्य स्वस्य यमिकाभिधाया राजधान्या अन्येषां च बहूनां वाणमन्तराणां देवानां देवीनां च स्वस्वयमिकाभिधराजधानीवास्तव्यानामाधिपत्यं यावद्विहरतः, यावत्करणात् 'पो| वश्यं सामित्तं भट्टित्तमित्यादिपरिग्रहः, ततो यमकाकारयमकवर्णोत्पलादियोगाद्यमकाभिधदेवस्वामिकत्वाच तौ यमकपर्वतावित्युच्येते, तथा चाह—' से एएणडेण' मित्यादि ॥ सम्प्रति यमिकाभिधराजधानीस्थानं पृच्छति - कहि णं भंते' इत्यादि, क भदन्त ! यमकयो| देवयोः सम्बन्धिन्यौ यमिके नाम राजधान्यौ प्रज्ञप्तौ ?, भगवानाह - गौतम ! यमकपर्वतयोरुत्तरतोऽन्यस्मिन्नसङ्ख्येयतमे जम्बूद्वीपे द्वीपे द्वादश योजनसहस्राणि अवगाह्यान्त्रान्तरे यमकयोर्देवयोः सम्बन्धिन्यो यमिके नाम राजधान्यौ प्रज्ञप्ते, ते चाविशेषेण विजयराजधानीसदृशे वक्तव्ये । सम्प्रति इदवक्तव्यतामभिधित्सुराह
कहिणं भंते! उत्तरकुराए २ नीलवंतद्दणामं दहे पण्णत्ते ?, गोयमा ! जमगपव्वयाणं दाहिणेणं अहत्ती जोयणसते चत्तारि सत्तभागा जोयणस्स अवाहाए सीताए महाणईए बहुमज्झदेस भाए, एत्थ उत्तरकुराए २ नीलवंतद्दहे नामं दहे पन्नत्ते, उत्तरदक्खिणायए पाईणपडीणविच्छिन्ने एगं. जोयणसहस्सं आयामेणं पंच जोयणसताइं विक्खंभेणं दस जोयणाई उव्वेहेणं अच्छे सण्हे रयतामत