________________
॥ कहि णं भंते! जमगाणं देवाणं जमगाओ नाम रायहाणीओ पण्णत्ताओ?, गोयमा! जमगाणं पव्वयाणं उत्तरेणं तिरियमसंखेज्जे दीवसमुद्दे वीइवतित्ता अण्णंमि जंबूद्दीवे २ बारस जोयणसहस्साई ओगाहित्ता एत्थ णं जमगाणं देवाणं जमगाओ णाम रायहाणीओ पण्णत्ताओ बारस
जोयणसहस्स जहा विजयस्स जाव महिड्डिया जमगा देवा जमगा देवा ॥ (सू०१४८) 'कहि णं भंते !' इत्यादि, क भदन्त! उत्तरकुरुषु कुरुषु यमको नाम द्वौ पर्वतौ प्रज्ञप्तौ ?, भगवानाह-गौतम! नीलवतो वर्षधर-1 पर्वतस्य दाक्षिणात्याच्चरमान्तात्-चरमरूपात्पर्यन्तादष्टौ योजनशतानि चतुस्त्रिंशदधिकानि चतुरश्च योजनस्य सप्तभागान् अबाधया कृत्वा-अपान्तराले मुक्त्वेति भावः, अनान्तरे शीताया महानद्या: 'पूर्वपश्चिमेन' पूर्वपश्चिमयोर्दिशोरुभयोः कूलयोः 'अत्र' एतस्मिन् | प्रदेशे यमको नाम द्वौ पर्वतौ प्रज्ञप्तौ, तद्यथा-एकः पूर्वकूले एकः पश्चिमकूले, प्रत्येकं चैकं योजनसहस्रमुच्चैस्त्वेन, अर्द्धतृतीयानि यो-2 जनशतान्युद्वेधेन-अवगाहेन, मेरुव्यतिरेकेण शेपशाश्वतपर्वतानां सर्वेषामविशेषेणोवैस्त्वापेक्षया चतुर्भागस्यावगाहनाभावात् , मूले एकयोजनसहस्रं विष्कम्भतः १०००, मध्येऽर्द्धाष्टमानि योजनशतानि ७५०, उपरि पञ्च योजनशतानि ५००, मूले त्रीणि योजनसहस्राणि एकं च द्वाषष्ट-द्वाषष्ट्यधिक योजनशतं किञ्चिद्विशेषाधिक परिक्षेपेण प्रज्ञप्तौ ३१६२, मध्ये द्वे योजनसहस्रे त्रीणि योजनशतानि द्वासप्ततानि-द्वासप्तत्यधिकानि ३३७२ किञ्चिद्विशेषाधिकानि परिक्षेपेण प्रज्ञप्तौ, उपरि एक योजनसहस्रं पञ्च चैकाशीतानि-एका
शीत्यधिकानि योजनशतानि किञ्चिद्विशेषाधिकानि १५८१ परिक्षेपेण, एवं च तो मूले विस्तीर्णी मध्ये सङ्किप्तौ उपरि च तनुकावत 15 एव गोपुच्छसंस्थानसंस्थितौ, 'सव्वकणगमया' इति सर्वासना कनकमयो 'अच्छा जाव पडिरूवा' इति प्राग्वत् , तौ च प्रत्येक