________________
तिप्रतनुक्रोधमानमायालोभाः, अत एव मृदु-मनोज्ञं परिणामसुखावहमिति भावः यन्मार्दवं तेन संपन्ना मृदुमार्दवसंपन्ना न कपटमार्दवो|पेता: 'अल्लीणा' इति आ-समन्तात्सर्वासु क्रियासु लीना-गुप्ता आलीना नोल्वणचेष्टाकारिण इत्यर्थः, भद्रका:-सकलतत्क्षेत्रोचितकल्याणभागिनः विनीता-बृहत्पुरुषविनयकरणशीला: अल्पेच्छा-मणिकनकादिविषयप्रतिबन्धरहिता अत एवासन्निधिसश्चया-न विद्यते सन्निधिरूपः सञ्चयो येषां ते तथा, "विडिमंतरपरिवसणा' विडिमान्तरेषु-शाखान्तरेषु प्रासादाद्याकृतिषु परिवसनं-आकालमावासो येषां ते विडिमान्तरपरिवसनाः 'जहिच्छियकामकामिणो' यथेप्सितान् मनोवाञ्छितान् कामान्-शब्दादीन् कामयन्त इत्येवंशीला यथेप्सि|तकामकामिनः, ते उत्तरकुरुवास्तव्या णमिति पूर्ववत् मनुजाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥ 'तेसि णं भंते!' इत्यादि, तेपां | भदन्त ! उत्तरकुरुवास्तव्यानां मनुष्याणां 'केवइकालस्स'त्ति सप्तम्यर्थे पष्ठी कियति काले गते भूय आहारार्थः समुत्पद्यते ?-आहारलक्षणं प्रयोजनमुपतिष्ठते ?, भगवानाह-गौतम! 'अष्टमभक्तस्य' अत्रापि सप्तम्यर्थे षष्ठी अष्टमभक्केऽतिक्रान्ते आहारार्थः समुत्पद्यते ॥ ते णं भंते!' इत्यादि, ते उत्तरकुरुवास्तव्या भदन्त! मनुष्याः किमाहारमाहारयन्ति ?, भगवानाह-गौतम! पृथिवीपुष्पफलाहारा:-पृथिवीपुष्पफलानि च कल्पद्रुमाणामाहारो येषां ते तथा ते मनुजाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् ! ॥ 'तेसि णं भंते' इत्यादि, तस्या भदन्त पृथिव्याः कीदृश आखादः प्रज्ञप्तः ?, भगवानाह-गौतम! 'से जहा नामए' इत्यादि, तत्-लोके प्रसिद्ध यथा नाम 'ए' इति वाक्यालङ्कारेऽखण्डमिति वा, इतिशब्द उपमाभूतवस्तुनामपरिसमाप्तिद्योतकः, वाशब्दो विकल्पने, एवं सर्वत्र,
गुड इति वा शर्करा इति वा, इयं शर्करा काशादिप्रभवा द्रष्टव्या, मत्स्य ण्डिका इति वा, मत्स्यण्डी-खण्डशर्करा, पप्टमोदक इति दावा बिसकन्द इति वा पुष्पोत्तरेति वा पद्मोत्तरेति वा विजया इति वा महाविजया इति वा उपमा इति वा अनुपमा इति वा, पप्पे