________________
तदन्ताः, तथाऽविरला - घना दन्ता येषां ते अविरलदन्ताः, 'एगदंत सेढीविव अणेगदंता' एकाकारा दन्तश्रेणिर्येषां ते तथा ते इव परस्परानुपलक्ष्यमाणदन्तविभागत्वाद् अनेके दन्ता येषां ते अनेकदन्ताः, एवं नामाविरलदन्ता यथाऽनेकदन्ता अपि सन्त एकाकार - दन्तपङ्कय इव लक्ष्यन्त इति भावः, 'हुयवहनिद्धंतधोयतत्ततव णिज्जरत्ततलतालुजीहा' हुतवहेन - अग्निना निर्ध्यातं सद् यद् धौतं - शोधितमलं तप्तं तपनीयं - सुवर्णविशेषस्तद्वद् रक्ते तले - हस्ततले तालु- काकुदं जिह्वा च - रसना येषां ते हुतवहनिर्मातघौततप्ततपनीयर कतलतालुजिह्वा: 'गरुलाययउज्जुतुंगनासा' गरुडस्येवायता - दीर्घा ऋज्वी - अवक्रा तुङ्गा-उन्नता नासा - नासिका येषां ते गरुडायतऋजुतुङ्गनासाः 'कोकासियधवलपत्तलच्छा' कोकासिते- पद्मवद्विकसिते धवले कचिदेशे पत्रले - पक्ष्मवती अक्षिणी - लोचने येषां ते कोकासितधवलपत्राक्षाः, एतदेव स्पष्टयति-- ' विष्फा लिय पुंडरीयनयणा' विस्फारितं - रविकिरणैर्विकासितं यत्पुण्डरीकं - सितपद्मं तद्वन्नयने येषां ते विस्फारितपुण्डरीकनयनाः, क्वचित् 'अवदालिय पुंडरीयनयणा' इति पाठस्तत्रापि अवदालितं-रविकिरणैर्विकासितमिति व्याख्येयं, 'आणामियचावरुइलतणुकसिणनिद्धभुया' आनामितं - ईपन्नामितमारोपितमिति भावः यच्चापं - धनुस्तद्वद् रुचिरे - संस्थानविशेषभावतो रमणीये तनू-तनुके लक्ष्णपरिमितवालपङ्कयात्मकत्वात् कृष्णे - परमकालिमोपेते स्निग्धे - स्निग्धच्छाये भ्रुवौ येषां ते आनामितचापरुचिरतनुकृष्णस्निग्धभ्रूकाः, कचित्पाठः -- ' आणामियचारुरुचिलकिण्हन्भराईसंठियसंगयआययसुजायभुमया' तत्र आनामितचापवद् रुचिरे कृष्णाभ्रराजीव संस्थिते संगते - यथोक्तप्रमाणोपपत्रे आयते - दीर्घे सुजाते - सुनिष्पन्ने जन्मदोषरहितत्वाद् भ्रुवौ येषां ते तथा, कचित्पुनरेवं पाठः - - ' आणामियचावरुइल किण्हन्भराइतणुकसिणनिद्धभुमया' तत्रानामितचापवद् रुचिरे - मनोज्ञे कृष्णाभ्रराजीव- कालमेघरेखेव तनू - तनुके कृष्णे-काले स्निग्धे सच्छाये भ्रुवौ येषां ते तथा, 'आलीणपमा