________________
उच्छूढदीहबाहू. भुजगेश्वरो - नागराजस्तस्य यो विपुलो महान् भोगो-देहो भुजगेश्वरविपुलभोगः तथा आदीयते - द्वारस्थगनार्थ गृहपत इत्यादानः स चासौ परिघा आदानपरिघः 'उच्छूढ'त्ति अवक्षिप्त:- अर्गलास्थानान्निष्कासितो द्वारपृष्ठभागे दत्त इत्यर्थः, ततः पूर्वपदेन विशेषणसमासः, विशेषणस्य परनिपातः प्राकृतत्वात् भुजगेश्वरविपुलभोगश्च आदानपरिघावक्षिप्तश्च ताविव दीर्घौ बाहू येषां ते तथा, 'रत्ततलोवतियमांसलसुजाय अच्छिदजालपाणी' रक्ततलौ-लोहिततलौ अवपतितौ- क्रमेण हीयमानोपचयौ मृदुको 1- कोमलौ मांसलौ सुजातौ - जन्मदोषरहितौ अच्छिद्रजालौ - अङ्गुल्यन्तरालसमूहरहितौ पाणी- हस्तौ येषां ते तथा, पाठान्तरं 'रत्ततंलोवइयमंसलसुजायपसत्थलक्खणअच्छिद्दजालपाणी' तत्र प्रशस्तलक्षणौ - शुभचिह्नाविति व्याख्येयं, शेषं तथैव, 'पीवरको मलवरंगु लीया' इति पीवराः - खशरीरानुक्रमोपचयाः कोमला - मृदवो वराः - प्रशस्तलक्षणोपेता अङ्गुलयो येषां ते पीवरकोमलवराङ्गुलिका:, पाठान्तरं 'पीवरवट्टियसुजायकोमलवरंगुलीया' व्यक्तम्, 'आयंबतलिणसुइरुइलनिद्धनखा' आताम्रा - ईषद्रक्ताः तलिना:- प्रतला: | शुचय:- पवित्रा रुचिरा - दीप्ताः स्निग्धा - अरूक्षा नखाः - कररुहा येषां ते तथा आताम्रतलिनशुचिरुचिरस्निग्धनखाः, 'चंदपाणिलेखा' चन्द्र इव चन्द्राकारा पाणौ रेखा येषां ते चन्द्रपाणिरेखा:, एवं सूर्यपाणिरेखाः शङ्खपाणिरेखाश्चक्रपाणिरेखा दिक्सौवस्तिको - दिक्प्रोक्षको दक्षिणावर्त्तः स्वस्तिक इत्यन्ये स पाणौ रेखा येषां ते दिक्सौवस्तिकपाणिरेखाः, एतदेवानन्तरोक्तं विशेषणपञ्चकं तत्प्रशस्तताप्रकर्षप्रतिपादनाय समहवचनेनाह - चन्द्रसूर्यशङ्खचक्रदिक्सौवस्तिकरेखाः, एतदनन्तरं कचिदेवं पाठः -- ' रविससिसंखवरचकसोत्थियविभिन्नसुविरइयपाणिरेहा' व्यक्तो नवरं विभक्ता-विभागवत्यः सुविरचिताः-सुष्ठु कृताः स्वकीयकर्म्मणा 'अणेगवरलक्खणुत्तमपसत्थसुइरइयपाणिलेहा' अनेकै:- अनेकसङ्ख्यैर्वरैः - प्रधानैर्लक्षणैरुत्तमाः प्रशस्ताः - प्रशंसास्पदीभूताः शुचयः - पवित्रा रचिताः - स्वकर्मणा निष्पा