SearchBrowseAboutContactDonate
Page Preview
Page 738
Loading...
Download File
Download File
Page Text
________________ ॥धवेयकं श्रोणीसत्रक चुडामणिः कनकतिलकं फुल्लक सिद्धार्थकं कर्णपाली शशी सूर्यो वृषभश्चक्रकं तलभगकं तुडितं हस्तमालकं ह-11 पकं केयूरं वलयं प्रालम्बमङ्गुलीयकं वलक्षं दीनारमालिका काञ्ची मेखला कलापः प्रतरं प्रातिहार्यकं पादोज्वलं घण्टिका किहिणी रत्नोरुजालं वरनूपुरं चरणमालिका कनकनिगरमालिकेति भूषणविधयो बहुप्रकाराः, एते च लोकत: प्रत्येतव्याः, कथम्भूताः१ इत्याहकाश्चनमणिरत्नभक्तिचित्राः, तथैव ते मण्यङ्गका अपि द्रुमगणा अनेकबहुविविधविश्रसापरिणतेन भूषणविधिनोपपेताः, कुशविकुशविशुद्धवृक्षमूला यावत्प्रतिरूपा इति ८॥'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे बहवो गेहाकारा नाम द्रुमगणाः प्रज्ञप्ता हे श्रमण हे आयुष्मन् ! यथा ते प्राकाराट्टालकचरिकाद्वारगोपुरप्रासादाकाशतलमण्डपैकशालकद्विशालकत्रिशालकचतुःशालकगर्भगृहमोहनगृहवलभीगृहचित्रशालमालिकभक्तिगृहवृत्तव्यस्रचतुरस्रनन्द्यावर्त्तसंस्थितानि पाण्डुरतलहर्म्य मुण्डमालहये, अथवा धवलगृहाणि अर्द्धमागधविभ्रमाणि शैलसुस्थितानि अर्द्धशैलसुस्थितानि कूटाकाराद्यानि सुविधिकोष्टकानि, तथाऽनेकानि गृहाणि शरणानि लयनानि 'अप्पेगें' इति भवनविकल्पा अत्र बहुविकल्पाः, एतेषां च परस्परं विशेषो वास्तुविद्यातोऽवसातव्यः, कथम्भूता एते? इत्याह-विडंगे'त्यादि, विटङ्कः-कपोतपाली जालवृन्दावाक्षसमूहः नि!हो-गृहैकदेशविशेष: अपवरक:-प्रतीतः चन्द्रशालिका-शिरोगृहं, एवंरूपाभिर्विभक्तिभिः कलिताः, तथैव गृहाकारा अपि द्रुमगणा अनेकवहुविविधविश्रसापरिणतेन भवनविधिनेति सम्बन्धः, किंविशिष्टेन? इत्याह-सुहारुहणमहोत्ताराए' इति सुखेनारोहणं-ऊर्द्ध सुखेनोत्तार:-अधस्तादवतरणं यस्य दर्दरसोपानपतयादिभिः स सुखारोहसुखोत्तारस्तेन, तथा सुखेन निष्क्रमणं प्रवेशश्च यत्र स सुखनिष्क्रमणप्रवेशस्तेन, कथं सुखारोहसुखोत्तारः? इत्याह-दर्दरसोपानपङ्गिकलितेन, हेतौ तृतीया, ततोऽयमर्थः-यतो दर्दरसोपानपनिक
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy