________________
तैलादिरूपो यस्य तत् पर्याप्तस्नेह, “धणिउजालिए' इति धणियं-अत्यर्थमुज्वालितम्, अत एव तिमिरमर्दकं-तिमिरनाशकं, पुनः किंविशिष्टमित्याह-कणगनिगरणकुसुमियपारियातगवणप्पगासे' कनकस्य निगरणं कनकनिगरणं गालितं कनकमिति भावः कुसुमितं च तत्पारिजातकवनं च कुसुमितपारिजातकवनं ततो द्वन्द्वसमासस्तद्वत्प्रकाश:-प्रभा आकारो यस्य तत्कनकनिगरणपारिजातकुसुमवनप्रकाशम् , एतावता समुदायविशेषणमुक्तम् , इदानीं समुदायसमुदायिनोः कथञ्चिद्भेदभे)द इति ख्यापयन् समुदायविशेषणमेव विवक्षुः समुदायिविशेषणान्याह-कंचणमणिरयणे'त्यादि, दीपिकाभिः शोभमानमिति सम्बन्धः, कथम्भूताभिर्दीपिकाभिः? अत आह-काञ्चनमणिरत्नानां काञ्चनमणिरत्नमया विमला:-स्वाभाविकागन्तुकमलरहिता महार्हा-महोत्सवार्हाः विचित्रा-विचित्रवर्णोपेताजी दण्डा यासां ताः काञ्चनमणिरत्नविमलमहार्ह विचित्रदण्डास्ताभिः, तथा सहसा-एककालं ज्वालिताश्च ता उत्सर्पिताश्च वर्चुत्सर्पणेन सहसाप्रज्वालितोत्सप्पिताः, स्निग्धं-मनोहरं तेजो यासां ताः स्निग्धतेजसः, तथा दीप्यमानो-रजन्यां भाखान् विमलोऽत्र धूल्याधपगमेन ग्रहगणो-ग्रहसमूहस्तेन समा प्रभा यासां ता दीप्यमानविमलग्रहगणसमप्रभाः, ततः पदद्वयपवयमीलनेन कर्मधारयसमासः, सहसाप्रज्वालितोत्सर्पितस्निग्धतेजोदीप्यमानविमलग्रहगणसमप्रभास्ताभिः, तथा वितिमिरा: करा यस्यासौ वितिमिरकरः स चासो सूरश्च वितिमिरकरसूरस्तस्येव यः प्रसरति उद्द्योत:-प्रभासमूहस्तेन 'चिल्लियाहिं'ति देशीपदमेतद् दीप्यमानाभिरित्यर्थः, ज्वाला एव यदुज्वलं प्रहसितमिव प्रहसितं तेनाभिरामा-अभिरमणीया ज्वालोज्वलपहसिताभिरामास्ताभिः, अत एव शोभमानाभिः शोभमाना:, तथैव दीपशिखा अपि द्रुमंगणा अनेकबहुविविधविश्रसापरिणतोद्योतविधिनोपेताः, कुशविकुश विशुद्धवृक्षमूला मूलवन्त इत्यादि प्राग्वद् यावत् प्रतिरूपा इति ४॥ 'उत्तरकुराए णं कुराए' इत्यादि, उत्तरकुरुपु कुरुषु तत्र तत्र देशे तस्य तस्य देशस्य तत्र तत्र प्रदेशे