________________
स्सीहिं जाव सोलसहिं आयरक्खदेवसाहस्सीहिं सब्विट्ठीए जाव निग्घोसनाइयरवेणं जेणेव सभा सुधम्मा तेणेव उवागच्छति २ त्ता सभं सुधम्म पुरथिमिल्लेणं दारेणं अणुपविसति २त्ता जेणेव मणिपेढिया तेणेव उवागच्छति २त्ता सीहासणवरगते पुरच्छाभिमुहे सण्णि
सपणे ॥ (सू०१४२) 'तए णमित्यादि, ततः स विजयो देवो वानमन्तरैः 'महया २' इति अतिशयेन महता इन्द्राभिपेकेणाभिषिक्तः सन् सिंहासनादभ्युत्तिष्ठति, अभ्युत्थायाभिषेकसभातः पूर्वद्वारेण विनिर्गत्य यत्रैवालङ्कारसभा तत्रैवोपागच्छति, उपागत्यालङ्कारिकसभामनुप्रदक्षिणीकुर्वन् पूर्वद्वारेणानुप्रविशति, अनुप्रविश्य च यत्रैव मणिपीठिका यत्रैव च सिंहासनं तत्रोपागच्छति, उपागत्य सिंहासनवरगतः पूर्वाभिमुखः संनिषण्णः, ततस्तस्य विजयस्य देवस्याभियोग्या देवा सुबहु 'आलङ्कारिकम् अलङ्कारयोग्यं भाण्डमुपनयन्ति । 'तए ण'मित्यादि, ततः स विजयो देवस्तत्प्रथमतया तस्यामलङ्कारसभायां प्रथमतया पक्ष्मला च सा सुकुमारा च पक्ष्मलसुकुमारा तया 'सुरभिगन्धकाषायिक्या' सुरभिगन्धकषायद्रव्यपरिकम्मितया लघुशाटिकयेति गम्यते गात्राणि रूक्षयति रूक्षयित्वा सरसेन गोशीपचन्दनेन गात्राण्यनुलिम्पति अनुलिप्य देवदूष्ययुगलं निधत्त इति योगः, कथम्भूतः ? इत्याह-नासानीसासवाय
वझं नासिकानिःश्वासवातवाह्य, एतेन श्लक्ष्णतामाह, 'चक्षुहर' चक्षुहरति-आमवशं नयति विशिष्टरूपातिशयकलितत्वाच्चक्षहरं E'वर्णस्पर्शयुक्तम्' अतिशायिना वर्णेनातिशायिना स्पर्शेन युक्तं 'हयलालापेलवाइरेग'मिति हयलाला-अश्वलाला तस्या अपि पेल
वमतिरेकेण हयलालापेलवातिरेकं 'नाम नाम्नैकार्थे समासो बहुल'मिति समासः, अतिविशिष्टमृदुत्वलघुत्वगुणोपेतमिति भावः,