________________
भूतं रजो यत्र [प्रन्थानं ७०००] सा नष्टरजास्तां, तथा भ्रष्टं-वातोद्भूततया राजधान्या दूरतः पलायितं रजो यस्याः सा भ्रष्टरजास्ताम्, एतदेवैकार्थिकद्वयेन प्रकटयति-प्रशान्तरजसं उपशान्तरजसं कुर्वन्ति, अप्येकका देवा विजयां राजधानीम् 'आसियसंमजियोवलितं सित्तं सुइसम्महारयारत्थंतरावणवीहियं करेंति' इति आसिक्तमुदकच्छटेन संमार्जितं कचवरशोधनेन उपलिप्तमिव गोमयादिनोपलिप्तं, तथा सिक्कानि जलेनात एव शुचीनि-पवित्राणि संमृष्टानि-कचवरापनयनेन रथ्यान्तराणि आपणवीथय इव-हट्टमार्गा इव आपणवीथयो रथ्याविशेषाश्च यस्यां सा तथा तां कुर्वन्ति, अप्येकका देवा • मञ्चातिमश्चकलितां कुर्वन्ति, अप्येकका देवा नानाविधा विशिष्टा रागा येषु ते नानाविरागा नानाविरागैरुच्छृतैः-ऊर्कीकृतैर्ध्वजैः पताकातिपताकाभिश्च मण्डितां कुर्वन्ति, अप्ये|कका देवा लाउल्लोइयमहितां गोशीर्षसरसरक्तचन्दनदर्दरदत्तपञ्चाङ्गुलितला कुर्वन्ति, अप्येकका देवा विजयां राजधानीमुपचितचन्दनकलशां कुर्वन्ति अप्येकका देवा चन्दनघटसुकृततोरणप्रतिद्वारदेशभागां कुर्वन्ति, अप्येकका देवा विजयां राजधानीमासिक्तोत्सक्तविपुलवृत्तवग्धारितमाल्यदामकलापां कुर्वन्ति, अप्येकका देवा विजयां राजधानी पञ्चवर्णसुरभिमुक्तपुष्पपुञ्जोपचारकलितां कुर्वन्ति, अप्येकका देवा विजयां राजधानी कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूपमघमघायमानां गन्धोद्धुताभिरामा सुगन्धवरगन्धगन्धिकां गन्धव-14 तिभूतां कुर्वन्ति, एतेषां च पदानां व्याख्यानं पूर्ववत् , अप्येकका देवा हिरण्यवर्ष वर्षन्ति, अप्येककाः सुवर्णवर्षमप्येकका आभरणवर्ष (रत्नवर्षमप्येकका ववर्षमप्येककाः) पुष्पवर्षमप्येकका माल्यवर्पमप्येककाचूर्णवर्ष वस्त्रवर्ष (आभरणवर्षे ) वर्पन्ति, अप्येकका देवा || हिरण्यविधि-हिरण्यरूपं मङ्गलप्रकारं 'भाजयन्ति' विश्राणयन्ति शेषदेवेभ्यो ददतीति भावः, एवं सुवर्णरत्नाभरणपुष्पमाल्यगन्धचूर्ण-18 वस्त्रविधिभाजनमपि भावनीयम् ॥ 'अप्पेगइया देवा दुयं नट्टविहिं उवदंसेंति' इत्यादि, इह द्वात्रिंशन्नाट्यविधयः, ते च येन क्रमेण