________________
करयलपरिग्गहिय'मित्यादि द्वयोर्हस्तयोरन्योऽन्यान्तरिताङ्गुलिकयोः संपुटरूपतया यदेकत्र मीलनं सा अनलिस्तां करतलाभ्यां परिगृहीता-निष्पादिता करतलपरिगृहीता ताम् , आवर्तनमावतः शिरस्यावर्तो यस्याः सा शिरस्यावर्त्ता, कण्ठेकाल उरसिलोमेत्यादिवदलुक्समासः, तामत एव मस्तके कृत्वा जयेन विजयेन वर्धापयन्ति-जय त्वं देव! विजय त्वं देव! इत्येवं वर्धापयन्तीत्यर्थः, तत्र जय:-परैरनभिभूयमानता प्रतापवृद्धिश्च, विजयस्तु-परेषामसहमानानामभिभवोत्पादः, जयेन विजयेन च वर्धापयित्वा एवमवादिषु:-'एवं खलु देवाणुप्पियाण'मित्यादि पाठसिद्धम् ॥ 'तए णमित्यादि, 'ततः' एतद्वचनानन्तरं विजयो देवस्तेषां सामानिकप
दुपपन्नकाना-सामानिकानां पर्षदुपपन्नकानां च देवानामन्तिके एनमर्थ 'श्रुत्वा' आकर्ण्य 'निशम्य' हृदये परिणमय्य 'हहतहचित्तमाणदिए' इति हृष्टतुष्टोऽतीव तुष्ट इति भावः, अथवा हृष्टो नाम विस्मयमापन्नो यथा शोभनमहो! एतैरुपदिष्टमिति, 'तुष्टः' तोपं कृतवान् यथा भव्यसभूदु यदेतैरित्थमुपदिष्ठमिति, तोषवशादेव चित्तमानन्दितं-स्फीतीभूतं 'टुणदु समृद्धौ' इति वचनात् , यस्य स चित्तानन्दितः, भार्यादिदर्शनात्पाक्षिको निष्ठान्तस्य परनिपातः मकारः प्राकृतत्वादलाक्षणिकस्ततः पदत्रयस्य पदद्वय २ मीलनेन कर्म|धारयः, 'पीइमणे' इति प्रीतिर्मनसि यस्यासौ प्रीतिमना जिनप्रतिमाऽर्चनविषयबहुमानपरायणमना इति भावः, ततः क्रमेण बहुमानोत्कर्षवशात् 'परमसोमणस्सिए' इति शोभनं मनो यस्यासौ सुमनास्तस्य भावः सौमनस्यं परमं च तत् सौमनस्यं च परमसौमनस्यं
तत्संजातमस्मिन्निति परमसौमनस्थितः, एतदेव व्यक्तीकुर्वन्नाह-हरिसवसविसप्पमाणहियए' हर्षवशेन विसर्पद्-विस्तारयायि || हृदयं यस्य स हर्षवशविसर्पद्धृदयः देवशयनीयादभ्युत्तिष्ठति, अभ्युत्थाय च देवदूष्यं परिधत्ते, परिधाय च उपपातसभातः पूर्वद्वारेण || निर्गच्छति, निर्गत्य च यत्रैव प्रदेशे हृदस्तत्रोपागच्छति, उपागत्य इदमनुप्रदक्षिणीकृत्य पूर्वेण तोरणेन हदमनुप्रविशति, प्रविश्य च