________________
पटे एवं वचः' इत्यादि प्रभसूत्रं सुगम, भगवानाह-गोयमे'त्यादि, गौतम ! विजये द्वारे विजयो नाम. प्राकृतत्वाद् अव्ययत्वाच्च नामशब्दात्परस्य दावचनस्य लोपस्ततोऽयमर्थः-प्रवाहतोऽनादिकालसन्ततिपतितेन विजय इति नाम्ना देवः | 'महर्द्धिकः' महती ऋद्धिः-भवनपरिवारादिका यस्यासौ महर्द्धिक: 'महाद्युतिकः' महती द्यतिः शरीरगता आभरणगता च यस्यासौ तामहाद्यतिकः, तथा महद् बलं-शारीरः प्राणो यस्य स महाबलः, तथा महद् यशः-ख्यातिर्यस्यासौ महायशाः, महेश इत्याख्या-प्रसिद्धियस्य स महेशाख्यः, अथवा ईशनमीशो भावे घप्रत्ययः ऐश्वर्यमित्यर्थः 'ईश ऐश्वर्ये' इति वचनात् तत ईशनमैश्वर्य आसनः ख्याति अन्त
तण्यर्थतया ख्यापयति-प्रथयति यः स ईशाख्यः महांश्वासावीशाख्यश्च महेशाख्यः, कचित् 'महासोक्खे' इति पाठस्तत्र महत सौख्यं प्रभूतसद्वेद्योदयवशाद् यस्य स महासौख्यः पल्योपमस्थितिकः परिवसति, स च तत्र चतुणी सामानिकसहस्राणां चतसृणामग्रमहिषीणां सपरिवाराणां प्रत्येकमेकैकसहस्रसङ्ख्यपरिवारसहितानां तिसृणां अभ्यन्तरमध्यमबाह्यरूपाणां यथाक्रममष्टदशद्वादशदेवसहस्रसङ्ख्याकानां पर्पदा सप्तानामनीकानां-हयानीकगजानीकरथानीकपदात्यनीकमहिषानीकगन्धर्वानीकनाट्यानीकरूपाणां सप्तानामनीकाधिपतीनां षोडशानामामरक्षसहस्राणां विजयस्य द्वारस्य विजयाया राजधान्या अन्येषां च बहूनां विजयराजधानीवास्तव्यानां देवानां देवीनां च 'आहेवच्चंति आधिपत्यम् अधिपतेः कर्म आधिपत्यं रक्षा इत्यर्थः, सा च रक्षा सामान्येनाप्यारक्षकेणेव क्रियते तत आह-पुरस्य पतिः पुरपतिस्तस्य कर्म पौरपत्यं सर्वेषामग्रेसरत्वमिति भावः, तञ्चाग्रेसरत्वं नायकत्वमन्तरेणापि स्वनायकनियुक्ततथाविधगृहचिन्तकसामान्यपुरुषस्येव (स्यात्) ततो नायकत्वप्रतिपत्त्यर्थमाह-'स्वामित्वं' स्वमस्यास्तीति स्वामी तद्भावः स्वामित्वं नायकत्वमित्यर्थः, तदपि च नायकलं कदाचित्पोषकत्वमन्तरेणापि भवति यथा हरिणयथाधिपतेहरिणस्य तत आह-भर्तृत्वं-पोषकत्वं 'डुभृञ् धारणपोपणयोः'