SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ 'जंबुद्दीवस्स णं भंते।' इत्यादि, जम्बूद्वीपस्य णमिति प्राग्वत् भदन्त! द्वीपस्य कति द्वाराणि प्रज्ञप्तानि ?, भगवानाह-गौतम! चत्वारि द्वाराणि प्रज्ञप्तानि, तद्यथा-विजयं वैजयन्तं जयन्तमपराजितं च ॥'कहिणं भंते!' इत्यादि, क भदन्त! जम्बूद्वीपस्य द्वीपस्य विजयं नाम द्वारं प्रज्ञप्तं ?, भगवानाह-गौतम जम्बूद्वीपे मन्दरस्य पर्वतस्य 'पुरच्छिमेणं'ति पूर्वस्यां दिशि पञ्चचत्वारिंशदुःयोजनसहस्रप्रमाणया 'अवाधया' अपान्तरालेन यो जम्बूद्वीपस्य "पुरच्छिमे पेरंते' इति पूर्वः पर्यन्तो लवणसमुद्रपूर्वार्द्धस्य 'पञ्चत्थिमेणं ति पश्चिमे भागे शीताया महानद्या उपरि 'अत्र' एतस्मिन् प्रदेशे जम्बूद्वीपस्य द्वीपस्य विजयं नाम द्वारं प्रज्ञप्तम्, अष्टौ योजनानि उच्चस्त्वेन चत्वारि योजनानि विष्कम्भेन, 'तावइयं चेव पवेसेणं ति तावन्त्येव चत्वारीत्यर्थः योजनानि प्रवेशेन, कथम्भूतमित्यर्थः, 'सेए' इत्यादि, 'श्वेतं' श्वेतवर्णोपेतं वाहल्येनाङ्करत्नमयत्वात् 'वरकणगथूभियाएं' इति वरकनका-वरकनकमयी स्तूपिका-शिखरं यस्य तद् वरकनकस्तूपिकाकम् , 'ईहामियउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ते खंभुग्गयवरवेइयापरिगयाभिरामे विजाहरजमलजुगलजंतजुत्ते इव अच्चीसहस्समालणीए रूवगसहस्सकलिए भिसमाणे भि-15 भिसमाणे चक्खुल्लोयणलेसे सुहफासे सस्सिरीयस्वे' इति विशेषणजातं प्राग्वत् । 'वण्णो दारस्स तस्सिमो होइ' इति 'वर्णः वर्णकनिवेशो द्वारस्य 'तस्य' विजयाभिधानस्य 'अयं वक्ष्यमाणो भवति, तमेवाह-तंजहे'त्यादि, तद्यथा-वनमया नेमाभागादूद्ध निष्कामन्त: प्रदेशा रिष्ठमयानि प्रतिष्ठानानि-मूलपादाः 'वेरुलियरुइलखंभे' इति वैडूर्या-वैडूर्यरत्नमया रुचिराः स्तम्भा यस्य तद् वैडूर्यरुचिरस्तम्भं 'जायरूवोवचियपवरपंचवण्णमणिरयणकुट्टिमतले' इति जातरूपेण-सुवर्णेनोपचितैः-युक्तैः प्रवरैः |-प्रधानैः पञ्चवर्णैर्मणिभिः-चन्द्रकान्तादिभिः रत्नैः-कर्केतनादिभिः कुट्टिमतलं-बद्धभूमितलं यस्य तत्तथा 'हंसगब्भमए एलुगे।
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy