________________
'नियइपव्वया' इति नियत्या-नयत्येन पर्वता नियतिपर्वताः, कचित् 'निययपव्वया' इति पाठस्तत्र नियता:-सदा भोग्यत्वेनावस्थिताः पर्वता नियतपर्वताः, यत्र वानमन्तरा देवा देव्यश्च भवधारणीयेन वैक्रियशरीरेण प्रायः सदा रममाणा अवतिष्ठन्ते इति भावः, 'जगतीपर्वतकाः' पर्वतविशेषाः 'दारुपर्वतकाः'दारुनिर्मापिता इव पर्वतकाः 'दगमंडवगा' इति 'दकमण्डपका' स्फटिकमण्डपकाः, उक्तं च मूलटीकायां-"दकमण्डपकाः स्फाटिकमण्डपका" इति, एवं दकमञ्चका दकमालका दकप्रासादाः, एते च दकमण्डपादयः केचित् 'ऊसडा' इति उत्सृता उच्चा इत्यर्थः, केचित् 'खुट्टा' इति क्षुल्ला लघव: कचित् 'खडख(ह)डगा' इति लघव आ| यताश्च, तथा अन्दोलकाः पक्ष्यन्दोलकाश्च, तत्र यत्रागत्य मनुष्या आसानमन्दोलयन्ति ते अन्दोलका इति लोके प्रसिद्धाः, यत्र तु पक्षिण आगत्यामानमन्दोलयन्ति ते पक्ष्यन्दोलकाः, ते चान्दोलकाः पक्ष्यन्दोलकाश्च तस्मिन् वनषण्डे तत्र तत्र प्रदेशे वानमन्तरदेवदेवीक्रीडायोग्या बहवः सन्ति, ते चोत्पातपर्वतादयः कथम्भूता: ? इत्याह-'सर्वरत्नमयाः' सर्वात्मना रत्नमयाः, 'अच्छा सण्हा' इ| त्यादि विशेषणजातं पूर्ववत् ॥'तेसु णमित्यादि, तेषु उत्पातपर्वतेपु यावत्पक्ष्यन्दोलकेषु, यावत्करणान्नियतिपर्वतकादिपरिग्रहः, वहूनि 5. हंसासनानि तत्र येषामासनानामधोभागे हंसा व्यवस्थिता यथा सिंहासने सिंहाः तानि हंसासनानि, एवं क्रौञ्चासनानि गरुडा
विनीयानि, उन्नतासनानि नाम यानि उच्चासनानि प्रणतासनानि-निम्नासनानि दीर्घासनानि-शय्यारूपाणि भद्रासनानि येषामधोभागे पीठिकाबन्धः पक्ष्यासनानि येपामधोभागे नानाखरूपाः पक्षिणः, एवं मकरासनानि सिंहासनानि च भावनीयानि, पद्मासनानि-पद्माकाराणि आसनानि 'दिसासोवत्यियासणाणि' येपामधोभागे दिक्सौवस्तिका आलिखिताः सन्ति, अन यथाक्रममासनानां सङ्घाहिका सङ्ग्रहणिगाथा-"हंसे १ कोंचे २ गरुडे ३ उण्णय ४ पणए य ५ दीह ६ भदे य ७ । पक्खे ८ मयरे
***SOORSES