________________
SAUSAISISSOS BOSCOSSOS
तस्यैव प्रायोऽतिकालिमसम्भवात् , इतिशब्द उपमाभूतवस्तुनामपरिसमाप्तिद्योतकः, वाशब्द उपमानान्तरापेक्षया समुच्चये, एवं सर्वत्रेतिवाशब्दौ द्रष्टव्यौ, 'अञ्जनं' सौवीराजनं रत्नविशेषो वा 'खञ्जनं' दीपमल्लिकामल: 'कज्जलं' दीपशिखापतितं . "मषी' तदेव कजलं ताम्रभाजनादिषु सामग्रीविशेषेण घोलितं मषीगुलिका-घोलितकजलगुटिका, कचित् 'मसी इति मसीगुलिया इति वे'ति न दृश्यते, गवलं-माहिषं शृङ्गं तदपि चोपरितनत्वग्भागापसारणेन द्रष्टव्यं, तत्रैव विशिष्टस्य कालिम्नः सम्भवात् , तथा तस्यैव माहिपशृङ्गस्य निबिडतरसारनिर्वतिता गुडिका गवलगुडिका 'भ्रमर' प्रतीतः 'भ्रमरावली' भ्रमरपद्धिः 'भ्रमरपतङ्गसार' भ्रमरप विशिष्टकालिमोपचितः प्रदेश: 'जम्बूफलं' प्रतीतम् 'आारिष्ट' कोमलकाकः 'परपुष्टः' कोकिलः गजो गजकलभश्च प्रतीत: 'कृष्णसर्पः' कृष्णवर्णसर्पजातिविशेष: 'कृष्णकेसरः' कृष्णवकुलः 'आकाशथिग्गलं' शरदि मेघविनिर्मुक्तमाकाशखण्डं तद्वत्कृष्णमतीव प्रतिभातीति तदुपादानं, कृष्णाशोककृष्णकणवीरकृष्णबन्धुजीवा: अशोककणवीरवन्धुजीववृक्षभेदाः, अशोकादयो हि पञ्चवर्णा भवन्ति ततः शेषवर्णव्युदासाथै कृष्णग्रहणम् , एतावत्युक्ते गौतमो भगवन्तं पृच्छति-भवे एयारूवे' इति भवेन्मणीनां तृणानां च कृष्णो वर्ण. 'एतद्रूपः' जीमूतादिरूपः ?, भगवानाह-गौतम ! 'नायमर्थः समर्थः' नायमर्थ उपपन्नो यदुतैवंभूतः कृष्णो वर्णो मणीनां तृणानां च, किन्तु ते कृष्णा मणयस्तृणानि च 'इतः' जीमूतादेः 'इष्टतरका एवं' कृष्णवर्णेनाभीप्सिततरका एव, तत्र किश्चिदकान्तमपि केपाश्चिदिष्टतरं भवति ततोऽकान्तताव्यवच्छित्त्यर्थमाह-कान्ततरका एवं' अतिस्निग्धमनोहारिकालिमोपचिततया जीमूतादेः कमनीयतरका एव, अत एव 'मनोज्ञतरकाः' मनसा ज्ञायन्ते-अनुकूलतया स्वप्रवृत्तिविपयीक्रियन्त इति मनोज्ञा-मनोऽनुकूलास्ततः प्रकर्षविवक्षायां तरपप्रत्ययः, तत्र मनोज्ञतरमपि किश्चिन्मध्यमं भवति ततः सर्वोत्कर्षप्रतिपादनार्थमाह-मनआपतरका एव' द्र