SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ RANIरवेदिकेति ॥ 'पउमवरवेइया णं मतनयति भावः, भगवानाह-गौतम स्थान सम, भगवानाह-गौतम SAGAGACARRAASEASCA प्रदेशेषु यथोक्तरूपाणि पद्मानि पद्मवरवेदिकाशब्दस्य प्रवृत्तिनिमित्तमितिभावः, व्युत्पत्तिश्चैवं-पनवरा पनप्रधाना वेदिका पावरवेदिका पद्मवरवेदिकेति ॥ 'पउमवरवेइया णं भंते किं सासया?' इत्यादि, पद्मवरवेदिका णमिति पूर्ववत् किं शाश्वती उताशाश्वती?, आबन्ततया सूत्रे निर्देशः प्राकृतत्वात् , किं नित्या उतानियेति भावः, भगवानाह-गौतम! स्यात् शाश्वती स्यादशाश्वती-कथञ्चिन्नित्या कथञ्चिदनित्येत्यर्थः, स्याच्छब्दो निपात: कथञ्चिदित्येतदर्थवाची ॥'से केणटेणं भंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! 'द्रव्यार्थतया' द्रव्यास्तिकनयमतेन शाश्वती, द्रव्यास्तिकनयो हि द्रव्यमेव तात्त्विकमभिमन्यते न पर्यायान् , द्रव्यं चान्वयि परिणामित्वाद, अन्यथा द्रव्यत्वायोगादु, अन्वयित्वाच सकलकालभावीति भवति द्रव्यार्थतया शाश्वती, 'वर्णपर्यायः तदन्यसमुत्पद्यमानवणविशेषरूपैरेवं गन्धपर्याय रसपर्यायः स्पर्शपर्यायैः, उपलक्षणमेतत्तदन्यपुद्गलविचटनोच्चटनैश्वाशाश्वती, किमुक्तं भवति?-पर्यायास्तिकनयमतेन पर्यायप्राधान्यविवक्षायामशाश्वती, पर्यांयाणां प्रतिक्षणभावितया कियत्कालभावितया वा विनाशिलात् , 'से एएणद्वेण'-1 मित्यादि उपसंहारवाक्यं सुगमं, इह द्रव्यास्तिकनयवादी स्वमतप्रतिस्थापनार्थमेवमाह-नात्यन्तासत उत्पादो नापि सतो विनाशो, 'नासतो विद्यते भावो, नाभावो विद्यते सत' इति वचनात् , यौ तु दृश्येते प्रतिवस्तु उत्पादविनाशौ तदाविर्भावतिरोभावमात्रं यथा सर्पस्योत्फणत्वविफणत्वे, तस्मात्सर्व वस्तु नित्यमिति ॥ एवं च तन्मतचिन्तायां संशयः-किं घटादिवद्व्यार्थतया शाश्वती उत ति, ततः संशयापनोदाथै भगवन्तं भूयः पृच्छति-पउमवरवेइया ण'मित्यादि, पद्मवरवेदिका णमिति पूर्ववद् 'भदन्त !' परमकल्याणयोगिन् ! ‘कियच्चिर' कियन्तं कालं यावद्भवति ?, एवंरूपा कियन्तं कालमवतिष्ठते? इति, भगवानाहगौतम! न कदाचिन्नासीत्, सर्वदेवासीदिति भावः, अनादित्वात् , तथा न कदाचिन्न भवति, सर्वदेव वर्चमानकालचिन्तायां भवतीति
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy