________________
भावः, एतेन द्वीपसमुद्राणामायामादिपरिमाणं पृष्टं, तथा 'किंसंठिया णं भंते! दीवसमुद्दा' इति किं संस्थितं-संस्थानं येषां ते किं- प्रतिपत्ती संस्थिता णमिति पूर्ववद् भदन्त! द्वीपसमुद्राः प्रज्ञप्ताः ?, अनेन संस्थानं पप्रच्छ, 'किमागारभावपडोयारा णं भंते! दीवसमुद्दा || देवाधिपण्णवा' इति आकारभाव:-खरूपविशेषः कस्याकारभावस्य प्रत्यवतारो येषां ते किमाकारभावप्रत्यवताराः, बहुलग्रहणाद्वैयधिकरण्ये-जा कार: ऽपि समासः, णमिति पूर्ववद्, द्वीपसमुद्राः प्रज्ञप्ताः ?, किं स्वरूपं द्वीपसमुद्राणामिति भावः, अनेन स्वरूपविशेषविषयः प्रभः कृतः, उद्देशा१ भगवानाह-गोयमें'त्यादि, गौतम! जम्बूद्वीपादयो द्वीपा 'लवणादिकाः' लवणसमुद्रादिकाः समुद्राः, अनेन द्वीपानां समुद्राणां 8 सू० १२३ चादिरुक्तः, एतचापृष्टमपि भगवता कथितमुत्तरत्रोपयोगित्वात् गुणवते शिष्यावापृष्टमपि कथनीयमिति ख्यापनार्थ च, 'संठाणतो'
इत्यादि, 'संस्थानतः' संस्थानमाश्रित्य 'एगविहिविहाणा' इति एकविधि-एकप्रकारं विधानं येषां ते एकविधिविधानाः, एकखरूपा ॐ इति भावः, सर्वेषां वृत्तसंस्थानसंस्थितत्वाद्, 'विस्तारतः' विस्तारमधिकृत्य पुनरनेकविधिविधानाः अनेकविधानि-अनेकप्रकाराणि विधा-8
नानि येषां ते तथा, विस्तारमधिकृत्य नानास्वरूपा इत्यर्थः, तदेव नानाखरूपत्वमुपदर्शयति-'दुगुणादुगुणे पडुप्पाएमाणा २ पवित्थरमाणा' इति, द्विगुणं द्विगुणं यथा भवति एवं प्रत्युत्पद्यमाना गुण्यमाना इत्यर्थः, 'प्रविस्तरन्त:' प्रकर्षेण विस्तारं गच्छन्तः, तथाहि-जम्बूद्वीप एक लक्षं लवणसमुद्रो द्वे लक्षे धातकीखण्डश्चत्वारि लक्षाणीत्यादि, 'ओभासमाणवीचीया' इति अवभासमाना वीचय:-फल्लोला येषां ते अवभासमानवीचयः, इदं विशेषणं समुद्राणां प्रतीतमेव, द्वीपानामपि च वेदितव्यं, तेष्वपि इदनदीतडागादिषु कल्लोलसम्भवात् , तथा बहुभिरुत्पलपकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरीकशतपत्रसहस्रपत्रैः 'पप्फुल्ल'त्ति प्रफुल्लै:-विक• I सितैः 'केसरे'ति केसरोपलक्षितरुपचिता:-उपचितशोभाका बहूत्पलपयकुमुदनलिनसभगसौगन्धिकपुण्डरीकमहापौण्डरीकशतपत्रसह