________________
-खेच्छया गमो येषां ते कामगमा:-खेच्छाचारिणः, कचित् 'कामकामाः' इति पाठः, कामेन-खेच्छया कामो-मैथुनसेवा येषां ते कामकामा अनियतकामा इत्यर्थः, तथा काम-वेच्छया रूपं येषां ते कामरूपास्ते च ते देहाश्व कामरूपदेहातान् धरन्तीत्येवंशीलाः कामरूपदेहधारिणः, खेच्छाविकुर्वितनानारूपदेहधारिण इत्यर्थः, तथा नानाविधैर्वण रागो-रक्तता येपा तानि नानाविधवर्णरागाणि वराणि-प्रधानानि चित्राणि-नानाविधानि अद्भुतानि वा (वस्त्राणि) चेल्ललकानि-देशीवचनाद् देदीप्यमानानि नियंसणं-परिधानं येषां ते नानाविधवर्णरागवरवनचेल्ललकनिवसनाः तथा विविधर्देशनेपथ्यैर्गृहीतो वेपो यैस्ते विविधदेशनेपथ्यगृहीतवेषाः, 'पमइयकंदप्पक
लहकेलिकोलाहलप्पिया' कन्दर्पः-कामोद्दीपनं वचनं चेष्टा च कलहो-राटि: केलि:-क्रीडा कोलाहलो-बोलः कन्दर्पकलहकेलिकोहालाहलाः प्रिया येषां ते कन्दर्पकलहकेलिकोलाहलप्रियाः, ततः प्रमुदितशब्देन सह विशेषणसमासः, 'हासबोलबहुला' इति हास-118
बोलौ बहुलौ-अतिप्रभूतो येषां ते हासबोलबहुलाः, तथाऽसिमुद्गरशक्तिकुन्ता हस्ते येषां ते असिमुद्गरशक्तिकुन्तहस्ताः, 'प्रहरणात् सप्तमी लाचेति सप्तम्यन्तस्य पाक्षिकः परनिपातः, 'अणेगमणिरयणविविहनिजुत्तचित्तचिंधगया' इति, मणय:-चन्द्रकान्ताद्या रत्नानि
कर्केतनादीनि अनेकैर्मणिरत्नैर्विविधं-नानाप्रकारं नियुक्तानि विचित्राणि-नानाप्रकाराणि चिह्नानि गतानि-स्थितानि येषां ते तथा, शेषं प्राग्वत् ॥ 'कहि णं भंते! पिसायाणं देवाणं भोमेजा नगरा पण्णत्ता?' क भदन्त! पिशाचानां देवानां भौमेयानि नगराणि प्रज्ञप्तानि ? इत्यादि, 'जहा ठाणपदे जाव विहरंति' यथा प्रज्ञापनायां स्थानाख्ये पदे तथा वक्तव्यं यावद्विहरन्तीति पदं, तञ्चैवं| "कहि णं भंते! पिसाया देवा परिवसंति ? गोयमा! इमीसे रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्सबाहलस्स उवरिं एगं जोयणसयं ओगाहेत्ता हेदा चेगं जोयणसयं वजेत्ता मज्झे असु जोयणसएसु, एत्थ णं पिसायाणं देवाणं तिरियमसंखेज्जा भोमेज्जन-1