________________
समुद्रं त्रीणि योजनशतान्यवगाह्यात्रान्तरे क्षुल्लहिमवदंष्ट्राया उपरि दाक्षिणात्यानामेकोरुकमनुष्याणामेकोरुकद्वीपो नाम द्वीपः प्रज्ञप्तः, स च त्रीणि योजनशतान्यायामविष्कम्भेण समाहारो द्वन्द्वः आयामेन विष्कम्भेन चेत्यर्थः, नव 'एकोनपञ्चाशानि' एकोनपञ्चाशदधिकानि योजनशतानि ९४९ परिक्षेपेण, परिमाणगणितभावना-"विक्खंभवग्गदहगुणकरणी वट्टस्स परिरओ होइ" इति- करणवशात्स्वयं कर्त्तव्या सुगमत्वात् ॥
सा णं पउमवरवेतिया एगेणं वणसंडेणं सवओ समंता संपरिक्खित्ता । से णं वणसंडे देसूणाई दो जोयणाई चक्कवालविक्खंभेणं वेतियासमेणं परिक्खेवेणं पण्णत्ते, से णं वणसंडे किण्हे किण्होभासे, एवं जहा रायपसेणइयवणसंडवपणओ तहेव निरवसेसं भाणियव्वं, तणाण य वण्णगंधफासो सद्दो तणाणं वावीओ उप्पायपचया पुढविसिलापट्टगा य भाणितव्वा जाव तत्थ णं बहवे
वाणमंतरा देवा य देवीओ य आसयंति जाव विहरंति ॥ (सू० ११०) 'से ण'मित्यादि, स एकोरुकनामा द्वीप एकया पद्मवरवेदिकया एकेन वनषण्डेन 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन परिक्षिप्तः, तत्र पद्मवरवेदिकावर्णको वनषण्डवर्णकश्च वक्ष्यमाणजम्बुद्वीपजगत्युपरिपद्मवरवेदिकावनपण्डवर्णकवद् भावनीयः, स च तावद् यावच्चरमं 'आसयंतीति पदम् ॥
एगोख्यदीवस्स णं दीवस्स अंतो बहुसमरमणिजे भूमिभागे पण्णत्ते, से जहाणामए आलिंगपुक्खरेति वा, एवं सयणिज्जे भाणितव्वे जाव पुढविसिलापट्टगंसि तत्थ णं वहवे एगुरूयदीवया
।