________________
तिए सूरिए उदेइ एवइयाइं नव ओवासंतराइं, सेसं तं चेव, नो चेव णं ते विमाणे वीईवएजा ए
महालया णं विमाणा पण्णत्ता, समणाउसो! ॥ (सू० ९९) तिरिक्खजोणियउद्देसओ पढमो॥ 'अस्थि णं भंते' इत्यादि, अस्तीति निपातो बह्वर्थे 'सन्ति' विद्यन्ते णमिति वाक्यालङ्कारे 'विमानानि विशेषतः पुण्यप्राणिभिर्मन्यन्ते-तद्गतसौख्यानुभवनेनानुभूयन्ते इति विमानानि, तान्येव नामग्राहमाह-अर्चीषि-अचिर्नामानि, एवमर्चिरावर्त्तानि अर्चिःप्रभाणि अर्चिःकान्तानि अचिर्वर्णानि अचिर्लेश्यानि अर्ध्विजानि अर्चिःशृङ्गा(राणि) अर्चिःस(शि)ष्टानि अर्चि:कूटानि अर्चिरुत्तरावतंसकानि सर्वसङ्ख्यया एकादश नामानि, भगवानाहा-'हंता अत्थि' हंतेति प्रत्यवधारणे अस्तीति निपातो बह्वर्थे सन्त्येवैतानि विमानानीति भावः । 'केमहालया ण'मित्यादि, किंमहान्ति कियत्प्रमाणमहत्त्वानि णमिति पूर्ववत् भदन्त! तानि विमानानि प्रज्ञप्तानि ?, भगवानाह-गौतम! "जाव य उएइ सूरो' इत्यादि, जम्बूद्वीपे सर्वोत्कृप्टे दिवसे सर्वाभ्यन्तरे मण्डले वर्तमानः सूर्यो यावति क्षेत्रे उदेति यावति च क्षेत्रे सूर्योऽस्तमुपयाति, एतावन्ति त्रीणि अवकाशान्तराणि, उद्यास्तमितप्रमितमधिकृतं क्षेत्रं त्रिगुणमित्यर्थः, अस्त्येतद्-बुद्ध्या परिभावनीयमेतद् यथैकस्य विवक्षितस्य देवस्यैको विक्रमः स्यात् , तत्र जम्बूद्वीपे सर्वोत्कृष्टे दिवसे सूर्य उदेति सप्तचत्वारिंशत्सहस्राणि द्वे शते त्रिषष्ट्यधिके योजनानामेकस्य च योजनस्यैकविंशतिः पष्टिभागा एतावति क्षेत्रे, उक्तञ्च-"सीयालीससहस्सा, दोणि सया जोयणाण तेवट्ठी । इगवीस सट्ठिभागा ककडमाइंमि पेच्छ नरा ॥१॥" ४७२६३२एतावत्येव क्षेत्रे तस्मिन् सर्वोत्कृष्टे दिवसेऽस्तमुपयाति, तत एतत्क्षेत्रं द्विगुणीकृतमुदयास्तापान्तरालप्रमाणं भवति, तच्चैतावत्-चतुर्नवतिः सहस्राणि पञ्च शतानि पड़िशत्यधिकानि योजनानामेकस्य च योजनस्य च द्वाचत्वारिंशत्पष्टिभागाः ९४५२६४२ एतावत्रिगुणीकृतं यथोक्तविमानपरिमाणक