________________
वेन स्वत एव सूत्रतः, तथा समनुप्राह्यमाणाः समनुप्राह्यमाणाः परेण सूत्रत एव, तथा समनुप्रेक्ष्यमाणाः समनुप्रेक्ष्यमाणा अनुप्रेक्षया अर्थालोचनरूपया, तथा समनुचिन्यमानाः समनुचिन्त्यमानास्तथा तथा तनयुक्तिभिः, एतयोरेव द्वयोः काययोः समवतरन्ति, तद्यथा-त्रसंकाये च स्थावरकाये च, 'एवामेव' इत्यादि, 'एवमेव उक्तेनैव प्रकारेण 'सपुव्वावरेणं पूर्व चापरं च पूर्वापरं सह पूवापरं येन स सपूर्वापरः उक्तप्रकारस्तेन, उक्तविषयपौर्वापर्यालोचनयेति भावार्थः, 'आजीवगदिहतेणं'ति आ-सकलजगदभिव्याप्त्या जीवानां यो दृष्टान्त:-परिच्छेदः स आजीवदृष्टान्तस्तेन सकलजीवदर्शनेनेत्यर्थः, आह च मूलटीकाकारः-"आजीवदृष्टान्तेन सकलजीवनिदर्शनेने"ति, चतुरशीतिजातिकुलकोटियोनिप्रमुखशतसहस्राणि भवन्तीयाख्यातं मयाऽन्यैश्च ऋषभादिभिरिति, अत्र चतुरशीतिसझोपादानमुपलक्षणं, तेनान्यान्यपि जातिकुलकोटियोनिप्रमुखशतसहस्राणि वेदितव्यानि, तथाहि-पक्षिणां द्वादश जातिकुलकोटियोनिप्रमुखशतसहस्राणि भुजगपरिसर्पाणां नव उरगपरिसर्पाणां दश चतुष्पदानां दश जलचराणामर्द्धत्रयोदशानि चतुरिन्द्रियाणां नव तीन्द्रियाणामष्टो द्वीन्द्रियाणां सप्त पुष्पजातीनां षोडश, एतेषां चैकत्र मीलने त्रिनवतिजातिकुलकोटियोनिप्रमुखशतसहस्राणि सार्द्धानि भवन्ति, ततश्चतुरशीतिसयोपादानमुपलक्षणमवसेयं, न चैतद् व्याख्यानं खमनीषिकाविजृम्भितं, यत उक्तं चूणों-'आजीवगदिह्रतेणं'ति अशेषजीवनिदर्शनेन चउरासीजातिकुलकोडि योनिप्रमुखशतसहस्रा एतत्प्रमुखा अन्येऽपि विद्यन्ते इति ॥ कुलकोटिविचारणे विशेषाधिकाराद्विमानान्यष्यधिकृत्य विशेषप्रश्नमाह। अत्थि णं भंते! विमाणाइं सोत्थीयाणि सोत्थियावत्ताई सोत्थियपभाई सोत्थियकन्ताई सो
१ टीकाकृदभिप्रायेण अचियाई अचियावत्ताई इत्यादि पाठसभव