________________
व्यापगमात जातोत्साह इत्यर्थः, स एवंभूतः सन् यथास्वसुखं (संकसन् ) संक्रामन् सातसौख्यबहुलो विहरेत्, एवमुक्ते गौतम आह-भवेयारूवे सिया?' इत्यादि प्राग्वत् ॥ सम्प्रति नैरयिकाणां स्थितिप्रतिपादनार्थमाह
इमीसे णं भंते ! रयणप्प० पु० रतियाणं केवतियं कालं ठिती पण्णत्ता ?, गोयमा ! जहण्णेणवि उकोसेणवि ठिती भाणितव्वा जाव अधेसत्तमाए.॥ (सू०९०)॥ इमीसे णं भंते ! रयणप्पभाए
रतिया अणंतरं उव्वद्विय कहिं गच्छंति? कहिं उववज्जंति? किं नेरतिएसु उववज्जति ? किं तिरिक्खजोणिएसु उववजंति ?, एवं उव्वद्दणा भाणितव्वा जहा वकंतीए तहा इहवि जाच अहेसत्तमाए ॥ (सू० ९१)
यणप्पयादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता?, भगवानाह-गौतम! जघन्येन दश वर्षसहस्राणि उत्कर्षतः सागरोपमं, एवं शर्कराप्रभापृथिवीनैरयिकाणां जघन्यत एकं सागरोपममुत्कर्षतस्त्रीणि सागरोपमाणि, वालुकाप्रभापृथिवीनैरयिकाणां जघन्यतस्त्रीणि सागरोपमाणि उत्कर्षतः सप्त, पङ्कप्रभापृथिवीनैरयिकाणां जघन्यत: सप्त सागरोपमाणि उत्कपतो दश, धूमप्रभापृथिवीनैरयिकाणां जघन्यतो दश सागरोपमाणि उत्कर्षतः सप्तदश, तमःप्रभापृथिवीनैरयिकाणां जघन्यतः सप्तदश सागरोपमाणि उत्कर्षतो द्वाविंशतिः, तमस्तमःप्रभायां जघन्यतो द्वाविंशतिसागरोपमाणि उत्कर्षतस्त्रयस्त्रिंशत् , कचित् 'जहा
पण्णवणाए ठिइपदे' इत्यतिदेशः सोऽप्येवमेवार्थतो भावनीयः, तदेवं प्रतिपृथिवि स्थितिपरिमाणमुक्तं, यदा तु प्रतिप्रस्तट स्थिति६ परिमाणं चिन्त्यते तदैवमवगन्तव्यम्-रत्नप्रभायां प्रथमे प्रस्तटे जघन्या स्थितिर्दशवर्षसहस्राणि १०००० उत्कृष्टा नवतिः ९००००,