________________
३ प्रतिपत्ती उद्देशः २ नारकाणां
क्षुत्तृद्धि 5 क्रिया
वेदनाः सू० ८९
सीतंपि पविणेसा तण्हंपि प० खुहंपि प० जपि प० दाहंपि प०निदाएन या पयलाएज्ज वा जाव उसिणे उसिणभूए संकसमाणे संकसमाणे सायासोक्खबहले यावि विहरेजा, गोयमा! सीयवेयणिज्जेसु नरएसु नेरतिया एत्तो अणिट्टयरियं चेव सीतवेदणं पचणुभवमाणा विहरंति ॥ (सू०८९) 'रयणे'त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त! कीदृशी क्षुधं पिपासा (च) प्रत्यनुभवन्तः प्रत्येक वेदद्यमाना: 'विहरन्ति' अवतिष्ठन्ति ?, भगवानाह-गौतम! 'एगमेगस्स णमित्यादि, एकैकस्य रत्नप्रभापूथिवीनैरयिकस्य 'असद्भाव(प्र)स्थापनया' असावकल्पनया ये केचन पुद्गला उद्धयश्चेति शेपः तान् 'आस्यके' मुखे सर्वपुद्गलान् सर्वोदधीन प्रक्षिपेत् , तथाऽपि 'नो चेव ण'मियादि, नैव रत्नप्रभापृथिवीनैरयिकः तृप्तो वा वितृष्णो वा स्यात् लेशतः अन प्रबलभस्मकव्याध्युपेतः पुरुषो इष्टान्तः । 'एरिसिया ण'मित्यादि, ईदृशी णमिति वाक्यालकृतौ गौतम रत्नप्रभापृथिवीनैरयिकाः क्षुधं पिपासां प्रत्यनुभवन्तो विहरन्ति, एवं प्रतिष्ठथिवि तावद्वक्तव्यं यावद्धःसप्तमी॥ सम्प्रति वैक्रियशक्तिं विचिचिन्तयिपुरिदमाह-'रयणप्पभे'त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त । प्रत्येक किम् 'एकत्वम्' एकं रूपं विकुर्वितुं प्रभवः उत 'पृथक्त्वं' पृथक्त्वशब्दो बदुवाची, आह च कर्मप्रकृतिसङ्ग्रहणिचूर्णिकारोऽपि-"पुहुत्तशब्दो बहुत्तवाई" इति, प्रभूतानि रूपाणि विकुक्तुिं प्रभवः १, "विकुर्व विक्रियायाम्' इत्यागमासिद्धो धातुरस्ति यस्य विकुर्वाण इति प्रयोगस्ततो विकुर्वितुमित्युक्तं, भगवानाह-एकत्वमपि प्रभवो विकुर्वितुं पृथक्त्वमपि प्रभवो विकुर्वितुं, तत्रैकं रूपं विकुर्वतो मुद्गररूपं वा मुद्गरः-प्रतीतः मुपण्ढिरूपं वा गुपण्डि:-प्रहरणविशेपः, करपत्ररूपं वा असिरूपं वा शक्तिरूपं वा हलरूपं वा गदारूपं वा मुशलरूपं वा चक्ररूपं वा नाराचरूपं वा कुन्तरूपं वा तोमररूपं वा शूलरूपं वा लकुटरूपं वा भिण्डमालरूपं वा विकुर्वन्ति, करपत्रादयः
॥११९॥