________________
णुसयं, उत्तरवे० अड्डाइज्जाइं धणुसयाई, छट्ठीए भवधारणिज्जा अड्डाइजाई धणुसयाई, उत्तरवेउव्विया पंचधणुसयाइं, सत्तमाए भवधारणिज्जा पंचधणुसयाई उत्तरवेउव्विए धणुसहस्सं ॥
(सू०८६) 'इमीसे णमित्यादि, अस्यां भदन्त! रत्नप्रभायां पृथिव्यां नैरयिकाः कुत उत्पद्यन्ते?, किमसज्ञिभ्य उत्पद्यन्ते सरीसृपेभ्य उत्प. धन्ते पक्षिभ्य उत्पद्यन्ते चतुष्पदेभ्य उत्पद्यन्ते उरगेभ्य उत्पद्यन्ते स्त्रीभ्य उत्पद्यन्ते मत्स्यमनुष्येभ्य उत्पद्यन्ते ?, भगवानाह-गौतम! | असज्ञिभ्योऽप्युत्पद्यन्ते यावन्मत्स्यमनुष्येभ्योऽप्युत्पद्यन्ते, 'सेसासु इमाए गाहाए अणुगंतव्वा' इति, 'शेषासु' शर्कराप्रभादिषु पृथिवीष्वनया गाथया, जातावेकवचनं गाथाद्विकेनेत्यर्थः, उत्पद्यमाना अनुगन्तव्याः, तदेव गाथाद्विकमाह-'अस्सण्णी खलु पढम'मित्यादि, असञ्जिन:-संमूछिमपञ्चेन्द्रियाः खलु प्रथमां नरकपृथिवीं गच्छन्ति, खलुशब्दोऽवधारणे, तथा अवधारणमेवम्-असञ्जिनः प्रथमामेव यावद् गच्छन्ति न परत इति, नतु त एव प्रथमामिति गर्भजसरीसृपादीनामपि उत्तरपृथिवीषटुगामिनां तत्र गमनात् , एवमुत्तरत्राप्यवधारणं भावनीयम् । 'दोच्चं च सरीसिवा' इति द्वितीयामेव शर्कराप्रभाख्यां पृथिवीं यावद्गच्छन्ति सरीसूपाः-गोधानकुलायो गर्भव्युत्क्रान्ता न परतः, तृतीयामेव गर्भजाः पक्षिणो गृध्रादयः, चतुर्थीमेव सिंहाः, पञ्चमीमेव गर्भजा उरगाः, षष्ठीमेव स्त्रियः स्त्रीरत्नाद्या महाराध्यवसायिन्यः, सप्तमी यावद् गर्भजा मत्स्या मनुजा अतिक्रराध्यवसायिनो महापापका(रिणः, आलापकश्च प्रतिपृथिवि एवम्-"सक्करप्पभाए णं भंते ! पुढवीए नेरइया किं असण्णीहिंतो उववज्जति जाव मच्छमणुएहितो: उववजति ?, गोयमा! नो असन्नीहिंतो उववजति सरीसिवेहिंतो उववजंति जाव मच्छमणुस्सेहिंतो उववनंति । वालुयप्पभाए णं भंते !!