________________
त्वरिता तया त्वरितया शीघ्रतरमेव तया प्रदेशान्तराक्रमणमिति, चपलेव चपला वया, क्रोधाविष्टस्येव श्रमासंवेदनात् चण्डेव चण्डा तया, निरन्तरं शीघ्रत्वगुणयोगात् शीघ्रा तथा शीघ्रया, परमोत्कृष्टवेगपरिणामोपेता जवना तया, अन्ये तु जितया विपक्षजेतृत्वेनेति व्याचक्षते, 'छेकया' निपुणया, वातोद्धूतस्य दिगन्तव्यापिनो रजस इव या गतिः सा उद्भूता तया, अन्ये त्वाहु: - उद्धतया दर्पातिशयेनेति, 'दिव्यया' दिवि-देवलोके भवा दिव्या तया देवगत्या व्यतित्रजन् जघन्यतः 'एकाहं वा' एकमहुर्यावत् एवं द्व्यहं त्र्यहमुत्कर्पतः पण्मासान् यावद् व्यतित्रजेत्, तत्रास्त्येतद् यदुत एककान् कांश्चन नरकान् 'व्यतित्रजेत्' उल्लय परतो गच्छेत्, तथाऽस्त्येतद् यदुत इत्थंभूतयापि गत्या पण्मासानपि यावन्निरन्तरं गच्छन् एककान् कांश्चन नरकान् 'न व्यतित्रजेत्' नोलय परतो गच्छेत्, अतिप्रभूताऽऽयामतया तेषामन्तस्य प्राप्तुमशक्यत्वात्, एतावन्तो महान्तो गौतम ! अस्यां रत्नप्रभायां पृथिव्यां नरकाः प्रज्ञप्ताः, एवमेकैकस्यां पृथिव्यां तावद्वक्तव्यं यावदधः सप्तम्यां नवरमधः सप्तम्यामेवं वक्तव्यम् - "अत्येगइयं नरगं वीइवएज्जा अत्येगइए नरगे नो बीइवएज्जा” अप्रतिष्ठानाभिधस्यैकस्य नरकस्य लक्षयोजनायामविष्कम्भतयाऽन्तस्य प्राप्तुं शक्यत्वात् शेषाणां च चतुर्णामतिप्रभूतास येययोजनकोटीकोटीप्रमाणत्वेनान्तस्य प्राप्तुमशक्यत्वात् ॥ सम्प्रति किंमया नरका इति निरूपणार्थमाह
इमीसे णं भंते! रयणप्पभाए पुढवीए णरगा किंमया पण्णत्ता ?, गोयमा ! सव्ववद्दरामया पण्णता, तत्थ णं नरएसु बहवे जीवा य पोग्गला य अवकमंति विउक्कमंति चयंति उववज्जंति, सासता णं ते परगा दव्वट्ट्याए वण्णपज्जवेहिं गंधपज्जवेहिं रसपज्जवेहिं फासपज्जवेहिं असासया, एवं जाव असत्तमाए ॥ (सू०८५ )
३ प्रतिपत्तौ
उद्देशः २
नरकावासप्रमाणं
नरकावा
सशाश्वत
तरत्वे
सू० ८५
॥ १०९ ॥