________________
सहसंयोजनसहन, मध्ये-पीठस्योपरि मध्यभागे सुषिराः सहस्र-योजनसहस्र, तत 'उपिति उपरि सङ्कषिता: शिखराकृत्या सरोचमपंगता योजनसहस्र, तत एवं सर्वसङ्ख्यया नरकावासानां त्रीणि योजनसहस्राणि बाहल्यतो भवन्ति, एवं पृथिव्यां पृथिव्यां सावक्तव्यं यावदधःसप्तम्यां, तथा चोक्तमन्यत्रापि-हेट्ठा घणा सहस्सं उप्पि संकोचतो सहस्सं तु । मझे सहस्स सुसिरा तिग्नि सहस्ससिया नरया ॥१॥" सम्प्रति नरकावासानामायामविष्कम्भप्रतिपादनार्थमाह-'इमीसे णं भंते!' इत्यादि, अस्यां भदन्त! रत्नप्रभायां पृथिव्यां नरकाः किंप्रमाणमायामविष्कम्भेन, समाहारो द्वन्द्वस्तेनायामविष्कम्भाभ्यामित्यर्थः, कियत् 'परिक्षेपेण' परिरयेण प्रज्ञप्ताः १, भगवानाह-गौतम! द्विविधाः प्रज्ञप्ताः, तद्यथा-सङ्ख्येयविस्तृताश्व असहयेयविस्तृताश्व, सङ्ख्येययोजनप्रमाणं विस्तृतंविस्तरो येपां ते सत्येयविस्तृताः, एवमसङ्ख्येयं विस्तृतं येषां ते असहयेयविस्तृताः, चशब्दो स्वगतानेकसख्याभेदप्रकाशनपरौ, तत्र ये ते सध्यविस्तृतास्ते सायेयानि योजनसहस्राणि आयामविष्कम्भेन सोयानि योजनसहस्राणि परिक्षेपेण, तत्र ये तेऽसोयविस्तृतास्तेऽसहयेयानि योजनसहस्राण्यायामविष्कम्भेन असङ्ख्येयानि योजनसहस्राणि परिक्षेपेण प्रज्ञप्तानि, एवं प्रतिपृथिवि तावद्वक्तव्यं यावषष्ठी पृथिवी, सूत्रपाठस्त्वेवम्-सकरप्पभाए णं भन्ते! पुढवीए नरगा केवइयं आयामविक्खंभेणं केवइयं परिरयेणं पण्णत्ता?, गोयमा! दुविहा पण्णत्ता, तंजहा-संखेजवित्थडा य, असंखेजवित्थडा य” इत्यादि ॥ 'अहेसत्तमाए णं भंते!' इत्यादि, अधःसप्तम्यां भदन्त! पृथिव्यां नरकाः कियदायामविष्कम्भेन कियत्परिक्षेपेण प्रज्ञप्ताः ?, भगवानाह-गौतम! द्विविधाः प्रज्ञप्ताः, तद्यथा-सहयेयविस्तृत एकः, स चाप्रतिष्ठानाभिधानो नरकेन्द्रकोऽवसातव्यः, असङ्ख्येयविस्तृताः शेषाश्चलारः, तत्र योऽसौ सङ्ख्येयविस्तृतोऽप्रतिष्ठानाभिधानो नरकेन्द्रकः स एकं योजनशतसहस्रमायामविष्कम्भेन त्रीणि योजनशतसहस्राणि पोडश सहस्राणि द्वे योजनशते सप्तविंशत्यधिके त्रयः