________________
1
जनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तं । 'इमी से ण' मित्यादि, अस्य भदन्त ! रत्नप्रभायाः पृथिव्या रत्नकाण्डस्योपरितनाञ्चरमान्तात्परतो-बहुलस्य काण्डस्य य उपरितनश्चरमान्त एतदन्तरं कियद् अवाधया प्रज्ञप्तम् ?, भगवानाह - गौतम ! एकं योजनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तं । 'इमीसे णमित्यादि, अस्या भदन्त । रत्नप्रभायाः पृथिव्या रत्नकाण्डस्योपरितनाञ्चरमान्तात्परतोऽब्बहुलस्य काण्डस्य योऽधस्तनश्चरमान्त एतदन्तरं कियद् अबाधया प्रज्ञप्तम् ?, भगवानाह - गौतम अशीत्युत्तरं योजनशतसहस्रम् । घनोद्धेरुपरितने चरमान्ते पृष्ठे एतदेव निर्वचनम शीत्युत्तरयोजनशतसहस्रम् अधस्तने पृष्ठे इदं निर्वचनं - द्वे योजनशतसहस्रे अवाधयाऽन्तरं प्रज्ञप्तम् । धनवातस्योपरितने चरमान्ते पृष्ठे इदमेव निर्वचनं, घनोदध्यधस्तनचरमान्तस्य घनवातोपरितनचरमान्तस्य च परस्परं संलग्नत्वात् । धनवातस्याधस्तने चरमान्ते पृष्टे एतन्निर्वचनम् - असङ्ख्येयानि योजनशतसहस्राण्यवाधयाऽन्तरं प्रज्ञप्तम् । एवं तनुवातस्योपरितने चरमान्ते अधस्तने चरमान्ते अवकाशान्तरस्याप्युपरितनेऽधस्तने च चरमान्ते इत्थमेव निर्वचनं वक्तव्यम्, असङ्ख्येयानि योजनशतसहस्राण्यबाधयाऽन्तरं प्रज्ञप्तमिति, सूत्रपाठस्तु प्रत्येकं सर्वत्रापि पूर्वानुसारेण स्वयं परिभावनीयः सुगमत्वात् ॥ 'दोच्चाए णं' इत्यादि, द्वितीयस्या भदन्त ! पृथिव्या उपरितनाञ्चरमान्तात्परतो योऽधस्तनश्चरमान्त एतत् 'कियत्' किंप्रमाणमवाधयाऽन्तरं प्रज्ञप्तम् ?, भगवानाह - गौतम | 'द्वात्रिंशदुत्तरं ' द्वात्रिंशत्सहस्राधिकं योजनशतसहस्रमबाधयाऽन्तरं प्रज्ञप्तम् । घनोदधेरुपरितने चरमान्ते पृष्टे एतदेव निर्वचनं द्वात्रिंशदुत्तरं योजनशतसहस्रम् अधस्तने चरमान्ते पृष्टे इदं निर्वचनं - द्विपञ्चाशदुत्तरं योजनशतसहस्रम् । एतदेव घनवातस्योपरितनचरमान्तपृच्छायामपि, घनवातस्याधस्तनचरमान्तपृच्छायां तनुवातावकाशान्तरयोरुपरितनाधस्तनचरमान्तपृच्छासु च यथा रत्नप्रभायां तथा वक्तव्यम्, असङ्ख्येयानि योजनशतसहस्राण्यबाधयाऽन्तरं प्रज्ञप्तमिति वक्तव्यमिति भावः ॥ ' तच्चाए णं