________________
जाइयं रत्नप्रभा पृथिवी प्रायोवृत्तिमाश्रित्य सर्वजीवैः सांव्यवहारिकैः कालक्रमेण परित्यक्तपूर्वा, न तु युगपत्परित्यक्ता, सर्वजीवैः एककाहालपरित्यागस्यासम्भवात् तथानिमित्ताभावात् , एवं तावद्वक्तव्यं यावदधःसप्तमी पृथ्वी ॥'इमीसे ण' मित्यादि, अस्यां भदन्त! रत्न
प्रभायां पृथिव्यां सर्वे पुद्गला लोकोदरविवरवर्तिनः कालक्रमेण 'प्रविष्टपूर्वाः' तद्भावेन परिणतपूर्वाः, तथा सर्वे पुद्गलाः 'प्रविष्टा एककालं तद्धावेन परिणताः ?, भगवानाह-गौतम! अस्यां रत्नप्रभायां पृथिव्यां सर्वे पुद्गलाः लोकवर्तिनः प्रविष्टपूर्वाः' तद्भावेन परिणतपूर्वाः, संसारस्थानादित्वात् , न पुनरेककालं सर्वपुद्गलाः 'प्रविष्टाः तद्भावेन परिणताः, सर्वपुद्गलानां तद्भावेन परिणतौ रत्नप्रभा-14 व्यतिरेकेणान्यत्र सर्वत्रापि पुद्गलाभावप्रसक्तेः, न चैतदस्ति, तथाजगत्खाभाव्यात् । एवं सर्वासु पृथिवीपु क्रमेण वक्तव्यं यावदधःसप्तम्यां पृथिव्यामिति ॥ 'डमा णं भंते !' इत्यादि, इयं भदन्त ! रत्नप्रभा पृथिवी सर्वपुद्गलैः कालक्रमेण 'विजढपुव्वा' इति परित्यक्त-1 पर्वा तथैव सर्वैः पतलैरेककालं परित्यक्ता ?, भगवानाह-गौतम! इयं रत्नप्रभा पृथिवी सर्वपुद्गलैः कालक्रमेण परित्यक्तपूर्वा, संसारस्थानादित्वात्, न पुनः सर्वपुद्गलैरेककालं परित्यक्ता, सर्वपुद्गलैरेककालपरित्यागे तस्याः सर्वथा स्वरूपाभावप्रसक्तेः, न चैतदस्ति, तथाजगत्खाभाव्यतः शाश्वतत्वात्, एतच्चानन्तरमेव वक्ष्यति । एवमेकैका पृथिवी क्रमेण तावद्वाच्या यावद्धःसप्तमी पृथिवी ।।
इमा णं भंते! रयणप्पभा पुढवी किं सासया असासया?, गोयमा! सिय सासता सिय असा सया ॥ से केणटेणं भंते! एवं वुच्चइ-सिय सासया सिय असासया?, गोयमा! व्वद्र्याए सासता, वण्णपज्जवेहिं गंधपज्जवेहिं रसपज्जवेहिं फासपजवेहिं असासता, से तेण?णं गोयमा! एवं वुचति-तं चेव जाव सिय असासता, एवंजाव अधेसत्तमा॥इमा णं भंते! रयणप्पभापु० कालतो