________________
3 कतिविभाग इत्यर्थः प्रज्ञप्तः ?, भगवानाह-गौतम त्रिविधः प्रज्ञप्तः, तद्यथा-'घनोदधिवलयः वलयाकारघनोदधिरूप इत्यर्थः, एवं घनवातवलयस्तनुवातवलयश्च, इयमत्र भावना-सर्वासां पृथिवीनामधो यत्प्राग बाहल्येन घनोदध्यादीनां परिमाणमुक्तं तन्मध्यभागे द्रष्टव्यं, ते हि मध्यभागे यथोक्तप्रमाणबाहल्यास्ततः प्रदेशहान्या प्रदेशहान्या हीयमानाः स्वस्वपृथिवीपर्यन्तेषु तनुतरा भूत्वा खां स्वां पृथिवीं वलयाकारेण वेष्टयित्वा स्थिताः, अत एवामूनि वलयान्युच्यन्ते, तेषां च वलयानामुच्चस्त्वं सर्वत्र स्वस्वपृथिव्यनुसारेण परिभावनीयं, तिर्यग्वाहल्यं पुनरने वक्ष्यते, इदानीं तु विभागमात्रमेवापान्तरालस्य प्रतिपादयितुमिष्टमिति तदेवोक्तं, एवमस्या रत्नप्रभायाः पृथिव्याः शेषासु दिक्षु, एवं शेषाणामपि पृथिवीनां चतसृष्वपि दिक्षु प्रत्येकं २ विभागसूत्रं भणितव्यम् ॥ सम्प्रति घनोदधिवलयस्य तिर्यग्बाहल्यमानमाह
इमीसे णं भंते ! रयणप्प० पुढवीए घणोदधिवलए केवतियं बाहल्लेणं पण्णत्ते?, गोयमा ! छ जोयणाणि बाहल्लेणं पण्णत्ते। सक्करप्प० पु० घणोदधिवलए केवतियं बाहल्लेणं पण्णत्ते?, गोयमा! सतिभागाइं छजोयणाई बाहल्लेणं पण्णत्ते। वालुयप्पभाए पुच्छा गोयमा! तिभागूणाई सत्त जोयणाई बाहल्लेणं प० । एवं एतेणं अभिलावणं पंकप्पभाए सत्त जोयणाई बाहल्लेणं पण्णत्ते । धूमप्पभाए सतिभागाइं सत्त जोयणाइं पण्णत्ते।तमप्पभाए तिभागूणाई अट्ट जोयणाई। तमतमप्पभाए अट्ठ जोयणाई । इमीसे णं रयणप्प० पु० घणवायवलए केवतियं बाहल्लेणं पण्णत्ते?, गोयमा! अद्धपंचमाई जोयणाई बाहल्लेणं । सकरप्पभाए पुच्छा, गोयमा! कोसूणाई पंच जोयणाई याहल्लेणं पण्णत्ताई,