________________
तिलक्षाः सप्तनवतिः सहस्राणि त्रीणि शतानि पश्चोत्तराणि २४९७३०५ पुष्पावकीर्णकाः, उक्तञ्च-"सत्ताणउइ सहस्सा चउवीसं लक्ख तिसय पंचऽहिया। बीयाए सेढिगया छव्वीससया उ पणनउया ॥१॥" उभयमीलने पञ्चविंशतिरीक्षा नरकावासानाम २५०००००। वालुकाप्रभायां नव प्रस्तटाः, प्रथमे च प्रस्तटे एकैकस्यां दिशि आवलिकाप्रविष्टा नरकावासाः पञ्चविंशतिः विदिशि चतुर्विशतिः मध्ये चैको नरकेन्द्रक इति सर्वसवयया सप्तनवतं शतं १९७, शेषेषु चाष्टसु प्रस्तटेषु प्रत्येकं क्रमेणाधोऽधोऽष्टकहानिः, तत्र च कारणं प्रागेवोक्तं, ततः सर्वसङ्ख्यया तत्रावलिकाप्रविष्टा नरकावासाश्चतुर्दश शतानि पञ्चाशीत्यधिकानि १४८५, शेपास्तु पुष्पावकीर्णकाश्चतुर्दश लक्षा अष्टनवतिः सहस्राणि पश्च शतानि पञ्चदशाधिकानि १४९८५१५, उक्तञ्च-"पंचसया पन्नारा अडनवइसहस्स लक्ख चोद्दस य । तइयाए सेढिगया पणसीया चोदससया उ॥१॥" उभयमीलने पञ्चदश लक्षा नरकावासानाम् १५०००००।। पङ्कप्रभायां सप्त प्रस्तटाः, प्रथमे च प्रस्तटे प्रत्येकं दिशि षोडश षोडश आवलिकाप्रविष्टा नरकावासाः विदिशि पञ्चदश पञ्चदश मध्ये चैको नरकेन्द्रकः सर्वसङ्ख्यया पञ्चविंशतिशतं १२५, शेषेषु षट्सु प्रस्तटेषु पूर्ववत् प्रत्येकं क्रमेणाधोऽधोऽष्टकाष्टकहानिः, ततः सर्वसङ्ख्यया तत्रावलिकाप्रविष्टा नरकावासाः सप्त शतानि सप्तोत्तराणि ७०७, शेषास्तु पुष्पावकीर्णका नव लक्षा नवनवतिः सहस्राणि द्वे शते त्रिनवत्यधिके ९९९२९३, उक्तश्च-"तेणउया दोणि सया नवनउइसहस्स नव य लक्खा य । पंकाए सेढिगया सत्त सया हुँति सत्तहिया ॥ १॥" उभयमीलने नरकावासानां दश लक्षाः १००००००। धूमप्रभायां पञ्च प्रस्तटाः, प्रथमे च प्रस्तटे एकैकस्यां दिशि नव नव आवलिकाप्रविष्टा नरकावासाः, विदिशि अष्टौ अष्टौ मध्ये चैको नरकेन्द्रक इति सर्वसह्वयया एकोनसप्ततिः. ६९, शेषेषु चतुर्पु प्रस्तटेषु पूर्ववत्प्रत्येकं क्रमेणाधोऽधोऽष्टकाष्टकहानिः, ततः सर्वसङ्ख्यया तत्रावलिकाप्रविष्टा नरकावासा द्वे शते पञ्चपट्य