________________
श्रीजीवाजीवाभि० मलयगिरीयावृत्तिः
॥ ६३ ॥
हरिवर्षरम्यकवर्णाकर्मभूमकमनुष्यस्त्रियः सङ्ख्येयगुणाः, देवकुरूत्तरकुरुक्षेत्रापेक्षया हरिवर्परम्यकक्षेत्रस्यातिप्रचुरत्वात्, स्वस्थानेऽपि द्वय्योऽपि परस्परं तुल्याः, क्षेत्रस्य समानत्वात्, ताभ्योऽपि हैमवतैरण्यवताकर्मभूमकमनुष्यस्त्रियः सोयगुणाः, क्षेत्रस्याल्पत्वेऽप्यल्पस्थितिकतया बहूनां तत्र तासां सम्भवात् स्वस्थाने तु द्वय्योऽपि परस्परं तुल्याः, ताभ्योऽपि भरतैरावतकर्मभूमिकमनुष्य स्त्रियः सङ्घयेयगुणा, कर्मभूमितया स्वभावत एव तत्र प्राचुर्येण सम्भवात् स्वस्थाने तु द्वय्योऽपि परस्परं तुल्याः, ताभ्योऽपि पूर्वविदेहापरविदेहकर्मभूमकमनुष्यस्त्रियः सङ्ख्येयगुणाः, क्षेत्रबाहुल्यादजितस्वामिकाल इव च स्वभावत एव तत्र प्राचुर्येण भावात्, स्वस्थाने तु - य्योऽपि परस्परं तुल्याः ॥ उक्तं तृतीयमल्पबहुत्वम् अधुना चतुर्थमाह- सर्वस्तोका वैमानिकदेवस्त्रियः अङ्गुलमात्रक्षेत्र प्रदेशराशेर्यद् द्वितीयं वर्गमूलं तस्मिन् तृतीयेन वर्गमूलेन गुणिते यावत्प्र ( वान् प्र ) देशराशिस्तावत्प्रमाणासु घनीकृतस्य लोकस्यैकप्रादेशिकीपु श्रेणिषु यावन्तो नभःप्रदेशा द्वात्रिंशत्तमभागहीनास्तावत्प्रमाणत्वात्प्रत्येकं सौधर्मेशानदेवस्त्रीणां ताभ्यो भवनवासिदेवस्त्रियोऽसयेयगुणाः अङ्गुलमात्रक्षेत्रप्रदेशराशेर्यत्प्रथमं वर्गमूलं तस्मिन् द्वितीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्प्रमाणासु श्रेणिषु यावान् प्रदेशराशिद्वात्रिंशत्तमभागहीनस्तावत्प्रमाणत्वात्, ताभ्यो व्यन्तरदेवस्त्रियोऽसङ्ख्येयगुणाः सख्येययोजनप्रमाणैकप्रादेशिक श्रेणिमात्राणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तेभ्योऽपि द्वात्रिंशत्तमे भागेऽपनीते यच्छेषमवतिष्ठते तावत्प्रमाणत्वात्तासां ताभ्यः सङ्ख्येयगुणा ज्योतिष्कदेवस्त्रियः, पट्पश्चाशदधिकशतद्वयाङ्गुलप्रमाणैकप्रादेशिक श्रेणिमात्राणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तेभ्यो द्वात्रिंशत्तमे भागेऽपसारिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणत्वात् ॥ उक्तं चतुर्थमल्पबहुत्वम्, इदानीं समस्त स्त्रीविषयं पञ्चममल्पबहुत्वमाहसर्वस्तोका अन्तरद्वीपकाकर्मभूमकमनुष्य स्त्रियः, ताभ्यो देवकुरूत्तरकुर्वकर्म्मभूमकमनुष्यस्त्रियः सख्येयगुणाः ताभ्योऽपि हरिवर
२ प्रतिपसं स्त्रीणाम
बहु
सू० ५०
॥ ६३ ॥