________________
एतावत्प्रमाणस्य तत्र जघन्यत उत्कर्षतश्च मनुष्याणामायुषः सम्भवात् , मरणानन्तरं च देवयोनावुत्पादात् । संहरणमधिकृत्य जघन्येनान्तर्मुहूर्तमुत्कर्षतो देशोनया पूर्वकोट्याऽभ्यधिकं पल्योपमासङ्ख्थेयभागं यावत् , भावनाऽत्र प्रागिव ॥ उक्ता सामस्त्येन मनुष्यत्री-1 वक्तव्यता, सम्प्रति देवस्त्रीवक्तव्यतामाह-देवित्थीण'मित्यादि, देवीनां तथाभवस्वभावतया कायस्थितेरसम्भवात् यैव प्राक् सामान्यतो विशेपतश्च भवस्थितिरुक्ता 'सेव संचिटणा भाणियव्वा' तदेवावस्थानं वक्तव्यम् , अभिलापश्च 'देवित्थी णं भंते! देविस्थीति कालतो केवच्चिरं होइ?' इत्यादिरूपः सुधिया परिभावनीयः॥ तदेवमुक्तं सामान्यतो विशेपतश्च स्त्रीत्वस्यावस्थानकालमानम, इदानीमन्तरद्वारमाह
इत्थीणं भंते! केवतियं कालं अंतरं होति?, गोयमा! जह० अंतोमु० उक्को० अणंतं कालं, वणस्सतिकालो, एवं सव्वासिं तिरिक्खित्थीणं । मणुस्सित्थीए खेत्तं पडुच्च जह० अंतो० उक्को० वणस्सतिकालो, धम्मचरणं पड़च्च जह० एवं समयं उक्को० अणंतं कालं जाव अवड़पोग्गलपरिय देसूणं, एवं जाव पुवविदेहअवरविदेहियाओ, अकम्मभूमगमणुस्सित्थीणं भंते! केवतियं कालं अंतरं होति?, गोयमा! जम्मणं पडुच जहन्नं दसवाससहस्साइं अंतोमुहुत्तमभहियाई, · उक्को० वणस्सतिकालो, संहरणं पडुच्च जह. अंतोमु० उक्को० वणस्सतिकालो, एवं जाव अंतरदी
वियाओ । देवित्थियाणं सव्वासिं जह० अंतो० उक्को० वणस्सतिकालो॥ (सू०४९) स्त्रिया भदन्त । अन्तरं कालतः कियश्चिरं भवति ?, स्त्री भूत्वा स्त्रीत्वाद् भ्रष्टा सती पुनः कियता कालेन स्त्री भवतीत्यर्थः, एवं -