________________
595%2523
महामाण्डलिकः स एवानेकदेशाधिपतिस्तत्स्कन्धावारेषु, ग्रामनिवेशेषु इत्यादि, असति बुद्ध्यादीन् गुणानिति यदिवा गम्यः शाखप्रसिद्धानामष्टादशानां कराणामिति प्रामः, निगमः-प्रभूततरवणिग्वर्गावासः, पांसुप्राकारनिबद्धं खेटं, क्षुल्लप्राकारवेष्टितं कर्वटम् , अर्द्धतृतीयगव्यूतान्तामरहितं मडम्बं 'पट्टण'त्ति पट्टनं पत्तनं वा, उभयत्रापि प्राकृतत्वेन निर्देशस्य समानत्वात् , तत्र यन्नौभिरेव गम्यं तत्पट्टनं यत्पुनः शकटोटकैनॊभिर्वा गम्यं तत्पत्तनं यथा भरुकच्छम, उक्तं च-पत्तनं शकटैगम्यं, घोटकैनौभिरेव च । नौभिरेव तु यद्गम्यं, पट्टनं तत्प्रचक्षते ॥१॥" द्रोणमुखं-प्रायेण जलनिर्गमप्रवेशम् , आकरो-हिरण्याकरादिः आश्रमः-तापसावसथोपलक्षित आश्रयः, संबाधो-यात्रासमागतप्रभूतजननिवेशः, राजधानी-राजाधिष्ठानं नगरम्, 'एएसिण' मित्यादि, एतेषां चक्रवर्तिस्कन्धावारादीनामेव विनाशेषूपस्थितेषु 'एत्थ णं'ति एतेषु चक्रवर्तिस्कन्धावारादिषु स्थानेष्वासालिका संमूर्च्छति, सा च जघन्यतोऽ-| कुलासङ्ख्येयभागमात्रयाऽवगाहनया समुत्तिष्ठतीति योगः, एतच्चोत्पादप्रथमसमये वेदितव्यम् , उत्कर्षतो द्वादश योजनानि-द्वादशयोजनप्रमाणयाऽवगाहनया 'तदनुरूपं' द्वादशयोजनप्रमाणदैर्ध्यानुरूपं विक्खंभवाहल्लेणे ति विष्कम्भश्च वाहल्यं च विष्कम्भवाहल्यं, समाहारो द्वन्द्वः, तेन, विष्कम्भो-विस्तारो बाहल्यं च-स्थूलता, भूमि 'दालित्ता णं' विदार्य समुत्तिष्ठति, चक्रवर्तिस्कन्धावारादीनामधस्ताद् भूमेरन्तरुत्पद्यत इति भावः, सा चासञ्जिनी-अमनस्का समूच्छिमत्वात् , मिथ्यादृष्टिः सासादनसम्यक्त्वस्यापि तस्या असम्भवात् , अत एवाज्ञानिनी, अन्तर्मुहूर्ताद्धायुरेव कालं करोति । 'अत्थेगइया अंगुलंपी'त्यादि, अस्तीति निपातोऽत्र बहुवचनाभिधायी, ततो-11 ऽयमर्थ:-सन्येककाः केचन महोरगा येऽङ्गलमपि शरीरावगाहनया भवन्ति, इहाङ्गलमुच्छ्याङ्गुलमवसातव्यं, शरीरप्रमाणस्य चिन्त्यमानत्वात्, सन्त्येकका येऽङ्गलपृथक्त्विका अपि-पृथक्त्वं द्विप्रभृतिरानवभ्य इति परिभाषा अङ्गालपृथक्त्वं शरीरावगाहनमानमे
6225%2%
2