________________
आगतानि, कदाचित् चतसृभ्यः कदाचित्पश्चभ्यः, काऽत्र भावना? इति चेदुच्यते-इह लोकनिष्कुटे पर्यन्तेऽधस्त्यप्रतरामेयकोणावस्थितो यदा सक्ष्मपृथिवीकायिको वर्त्तते तदा तस्याधस्तादलोकेन व्याप्तत्वात अधोदिकपुरलाभावः आग्नेयकोणावस्थितत्वात पूर्वदिकपुदलाभावोडा दक्षिणदिकपुद्गलाभावश्च, एवमधःपूर्वदक्षिणरूपाणां तिसृणां दिशामलोकेन व्यापनात् ता अपास्य. या परिशिष्टा ऊर्ध्वाऽपरोत्तराच दिगव्याहता वर्त्तते तत आगतान् पुद्गलानाहारयन्ति, यदा पुनः स एव पृथिवीकायिक: पश्चिमां दिशमनुसृत्य वर्तते तदा पूर्वा दिगभ्यधिका जाता, द्वे च दिशौ दक्षिणाधस्त्यरूपे अलोकेन व्याहते इति स चतुर्दिगागतान् पुद्गलानाहारयति, यदा पुनरूर्व द्वितीयादिप्रतरगतपश्चिमदिशमवलम्ब्य तिष्ठति तदाऽधस्यापि दिगभ्यधिका लभ्यते, केवला दक्षिणैवैका पर्यन्तवर्तिनी अलोकेन व्याहतेति पश्चदिगागतान् पुद्गलानाहारयति । 'वण्णतो' इत्यादि वर्णतः कालनीललोहितहारिद्रशुक्लानि, गन्धतः सुरभिगन्धानि दुरभिगन्धानि वा, रसतस्तिक्तानि यावन्मधुराणि, स्पर्शत: कर्कशानि यावद्रूक्षाणि, तथा तेपामाहार्यमाणानां पुद्गलानां पुराणान्' अग्रेतनान् वर्णगुणान् गन्धगुणान् रसगुणान् स्पर्शगुणान् विपरिणामइत्ता परिपालइत्ता परिसाडइत्ता परिविद्धंसइत्ता' एतानि चत्वार्यपि पदान्येकाथिकानि | विनाशार्थप्रतिपादकानि नानादेशजविनेयानुग्रहार्थमुपात्तानि, विनाशः किमित्याह-अन्यान् अपूर्वान् वर्णगुणान् गन्धगुणान् रसगुणान् स्पर्शगुणान् उत्पाद्यामशरीरक्षेत्रावगाढान् पुद्गलान् 'सव्वप्पणयाए' सर्वासना-सवैरेवामप्रदेशैराहारमाहाररूपान् पुद्गलानाहारयन्ति ॥ गतमाहारद्वारं, साम्प्रतमुपपातद्वारमाह ते णं भंते'इत्यादि, ते भदन्त ! सूक्ष्मपृथिवीकायिका जीवाः 'कुतः' केभ्यो जीवेभ्य उद्बत्योत्पद्यन्ते ?, किं नैरयिकेभ्यः? इत्यादि प्रतीतं, भगवानाह-गौतम नो नैरयिकेभ्य इत्यादि पाठसिद्ध, नवरं देवनैरयिकेभ्य उत्पादप्रतिषेधो देवनैरयिकाणां तथाभवस्वभावतया तन्मध्ये उत्पादासम्भवात् , 'जहा वकंतीए' इति, यथा प्रज्ञापनायां व्युत्क्रान्तिपदे तथा