________________
॥१६॥
श्रीजीवा- घाणिदिए णं भंते! किंसंठाणसंठिए पनत्ते?, गोयमा! अइमुत्तसंठाणसंठिए पनत्ते, जिभिदिए णं भंते! किंसंठाणसंठिए पन्नत्ते, १प्रतिपचौ जीवाभि० ६ गोयमा खुरप्पसंठाणसंठिए पन्नत्ते, फासिदिए णं भंते किंसंठाणसंठिए पण्णत्ते?, गोयमा! नाणासंठाणसंठिए पन्नत्ते ॥” इति, इह सूक्ष्मपृमलयगि-* स्पर्शनेन्द्रियनिर्वृत्तेः प्रायो न वायाभ्यन्तरभेदः, तत्त्वार्थमूलटीकायोमनभ्युपगमात् , उपकरणं नाम खजस्थानीयाया बाह्यनिर्वृत्तेर्या ध्वीकायाः रीयावृत्तिः खगधारास्थानीया स्वच्छतरपुद्गलसमूहासिकाऽभ्यन्तरा निर्वृत्तिस्तस्याः शक्तिविशेषः, इदं चोपकरणरूपं द्रव्येन्द्रियमान्तरनिर्वृत्तेः कथञ्चि- 5-सू०१३
दर्यान्तरं, शक्तिशक्तिमतोः कथञ्चिद्भेदात् , कथञ्चिद्भेदश्व सत्यामपि तस्यामान्तरनिवृत्तौ द्रव्यादिनोपकरणस्योपघातसम्भवात् , तथाहि
-सत्यामपि कदम्बपुष्पाद्याकृतिरूपायामान्तरायां निर्वृत्तौ महाकठोरतरघनगर्जितादिना शक्त्युपघाते सति न परिच्छेत्तुमीशते जन्तवः । 5 शब्दादिकमिति, भावेन्द्रियमपि द्विधा-लब्धिरुपयोगश्च, तत्र लब्धिः श्रोत्रेन्द्रियादिविषयस्तदावरणक्षयोपशमः, उपयोगः स्वस्वविषये ४
लब्ध्यनुसारेणासन: परिच्छेदव्यापारः, तत्र यद्यपि द्रव्यरूपं भावरूपं चेत्थमिन्द्रियमनेकप्रकारं तथाऽपीह वाह्यनिर्वृत्तिरूपमिन्द्रियं पृष्टमवगन्तव्यं, तदेवाधिकृत्य व्यवहारप्रवृत्तेः, तथाहि-बकुलादयः पञ्चेन्द्रिया इव भावेन्द्रियपश्वकविज्ञानसमन्विता भनुमानतः प्रतीयन्ते तथाऽपि न ते पञ्चेन्द्रिया इति व्यवहियन्ते, बालेन्द्रियपञ्चकासम्भवात् , उक्तं च-पंचेंदिओ उ बउलो नरो व्व सव्वविसओवलंभाओ । तहवि न भण्णइ पंचिंदिउ ति बझिदियाभावा ॥१॥" ततो द्रव्येन्द्रियमधिकृत्य निर्वचनसूत्रमाह-'गोयमे'त्यादि । सुगमम् ।। गतमिन्द्रियवारमधुना समुद्घातद्वार, तत्र समुद्घाताः सप्त, तद्यथा-वेदनासमुद्घात:१ कषायसमुद्घात: २ मारणसमुद्घात: ३ वैक्रियसमुद्घातः ४ वैजससमुद्घात: ५ आहारकसमुद्घातः ६ केवलिसमुद्घातश्च ७, तत्र वेदनायाः समुद्घातो वेदनासमुद्घात:,
१ पधेन्द्रिय एव बकुलो नर इव सर्वविषयोपत्तम्भात् । तथापि न भण्यते पञ्चेन्द्रिय इति बानियाभावात् ॥१॥
+CES
॥१२