________________
द्रव्यसाचिव्यात्परिणामो य आमनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रवर्त्तते ॥ १॥" सा च षोढा, तद्यथा-कृष्णलेश्या नीललेश्या कापोतलेश्या तेजोलेश्या पद्मलेश्या शुक्लेश्या च, आसां च स्वरूपं जम्बूफलखादकषट्पुरुषदृष्टान्तेनैवावसातव्यम्-"पंथाओ परिभट्ठा छप्पुरिसा अडविमज्झयारंमि । जंबूतरुस्स हेट्ठा परोप्परं ते विचिंतेति ॥ १ ॥ निम्मूलखंधसाला गोच्छे पके य पडियसडियाई । जह एएसिं भावा तह लेसाओवि नायव्वा ॥२॥" अमीषां च सूक्ष्मपृथिवीकायिकानामतिसंक्लिष्टपरिणामत्वाद्देवेभ्यः सूक्ष्मेष्वनुत्पादाच्चाद्या एव तिस्रः कृष्णनीलकापोतरूपा लेश्याः, न शेषा इति ॥ गतं लेश्याद्वारमिदानीमिन्द्रियद्वारमाह-'तेसिण'मियादि, इन्द्रियं नाम 'इदु परमैश्वर्ये' 'उदितः' इति नम्, इन्दनादिन्द्रः-आमा सर्वोपलब्धिरूपपरमैश्वर्ययोगात् तस्य लिङ्गं-चिह्नमविनाभावि इन्द्रियम् , 'इन्द्रिय'मिति निपातनसूत्राद्रूपनिष्पत्तिः, तत्पञ्चधा, तद्यथा-श्रोत्रेन्द्रियं चक्षुरिन्द्रियं जिह्वेन्द्रियं घ्राणेन्द्रियं स्पर्शनेन्द्रियं च, एकैकमपि द्विधा-द्रव्येन्द्रियं भावेन्द्रियं च, द्रव्येन्द्रियं द्विधा-निवृत्तिरूपमुपकरणरूपं च, तत्र निर्वृत्ति म प्रतिविशिष्टः संस्थानविशेषः, साऽपि द्विधा-बाह्याऽभ्यन्तरा च, तत्र बाह्या कर्णपर्पटिकादिरूपा, सा च विचित्रा न प्रतिनियतरूपतया निर्देष्टुं शक्यते, तथाहि-मनुष्यस्य श्रोत्रे नेत्रयोरुभयपार्श्वतोभाविनी भ्रवावुपरितनश्रवणबन्धापेक्षया समे, वाजिनो नेत्रयोरुपरि तीक्ष्णे चाग्रभागे इत्यादि, अभ्यन्तरा तु निर्वृत्तिः सर्वेषामप्येकरूपा, तामेवाधिकृत्य चामूनि सूत्राणि प्रावतिषत-"सोईदिए णं भंते! किंसंठाणसंठिए पण्णत्ते ?, गोयमा! कलंबुयासंठाणसंठिए पन्नत्ते, चक्खिदिए णं भंते! किंसंठाणसंठिए पन्नत्ते ?, गोयमा! मसूरचंदसंठाणसंठिए पन्नत्ते,
१पथ. परिश्रष्टा. षट् पुरुषा अटवीमध्यभागे । जम्बूतरोरधस्तात् परस्पर ते विचिन्तयन्ति ॥ १॥ निर्मूलं स्कन्धं शाखा प्रशाखा गुच्छान् (छित्त्वा ) पक्वानि 12 पतितशटितानि (भक्षयाम ) । यथैतेषा भावास्तथा लेश्या अपि ज्ञातव्या ॥२॥