________________
भव- भावना प्रकरणे
संसारभावनायां नरकावास वर्णनम्
F
%
यावच्छकराप्रभा आयामविष्कम्भाभ्यां सर्वत्र रज्जुद्वयं, एवं वालुकाप्रभा तिस्रो रजवः, पङ्कप्रभा चतस्रः; धूमप्रभा पञ्च, पष्ठी षड् , सप्तमपृथ्वी सप्त रजवः आयामविष्कम्भाभ्यामिति स्थूलमानं, सूक्ष्म तु तत् शास्त्रान्तरेभ्योऽवसेयमिति । एतासु च सप्तपृथिवीषु नगरकल्पा अधरोत्तरगत्या व्यवस्थिताः प्रस्तटा भवन्ति । तद्यथा-रत्नप्रभायां त्रयोदश, शर्कराप्रभायामेकादश, वालुकाप्रभायां नव, चतुयों सप्त, पश्चम्यां पञ्च, षष्ठयां त्रयः, सप्तम्यां त्वेकप्रस्तटः उक्तं च-'तेरेक्कारस नव सत्त पंच तिन्नि य तहेव एको य | पत्थडसंखा एसा सत्तसु वि कमेण पुढवीसु ॥१॥,' एतेषु च नगरकल्पेषु प्रस्तटेषु तदन्तर्गताः पाटककल्पा नरकावासा भवन्ति, तत्सङ्खयां सप्तस्वपि पृथिवीषु क्रमेणाऽऽहतीस पणवीस पनरस दसलक्खा तिन्नि एग पंचूणं । पंच य नरगावासा चुलसीलक्खाइं सव्वासु।
रत्नप्रभायां त्रयोदशस्वपि प्रस्तटेषु त्रिंशल्लक्षाणि नरकावासानां भवन्ति, एवं यावत् षष्ठपृथिव्यां त्रिष्वपि प्रस्तटेषु पञ्चभिर्नरकावासैन्यूनमेकं लक्षं नरकावासानां भवति, सप्तम्यां त्वेकस्मिन् प्रस्तटे पश्चैव नरकावासाः । मीलितास्तु सर्वेऽपि चतुरशीतिलक्षाणि भवन्ति ॥ अथैषां नरकावासानां संस्थानादिस्वरूपमाह
2F