________________
तदेवमनित्यत्वादिकाः प्रोक्ताश्चतस्रो भावनाः, तासु च भावितासु भवस्वरूपं भावनीयं, नद्भावने विरागोत्पत्तेस्तद्धेतुविपक्षासेवनेन मोक्षावाप्तेरित्यनेन सम्बन्धेन इदानीं भवभावनोच्यते, इयमेव चेह सविस्तरा, अत एतदभिधानेनैव ग्रन्थोऽयं प्रसिद्धः, भवश्च नारकतिर्यनरामरगतिभेदाचतुर्विध इत्यतो नारकगतिस्वरूपं प्रथमं परिभावनीयमिति दर्शयतिनारयतिरियनरामरगईहिं चउहा भवो विणिहिट्ठो। तत्थ य निरयगईए सरूवमेवं विभावेज्जा ॥२॥ ___ गतार्था ॥ कथं परिभावयेद् ? इत्याहरयणप्पभाइयाओ एयाओं तीइ सत्त पुढवीओ। सव्वाओ समंतेणं अहो अहो वित्थरंतीओ॥३॥ ____ तस्यां नरकगतौ एता रत्नप्रभादिकाः सप्त पृथिव्यो भवन्ति, तद्यथा-रत्नप्रभा शर्कराप्रभा वालुकाप्रभा पङ्कप्रभा धूमप्रभा तमःप्रभा तमस्तमःप्रभा । एतासु च मध्ये रत्नप्रभा प्रत्यक्षत एव दृश्यते, अतस्तत्प्रत्यक्षतया प्रत्यक्षपरामर्शिना एतच्छब्देन सर्वा अपि निर्दिष्टाः । एताश्च सर्वा अपि समन्तात सर्वासु दिवायामविष्कम्भाभ्यामधोऽधो विस्तारवत्यो द्रष्टव्याः। तद्यथा-रत्नप्रभा उपरितन समवर्तिन्याकाशप्रदेशप्रतरद्वये आयामविष्कम्भाभ्यां सर्वत्रैकरज्जुः, ततश्चाधोऽध एषा विस्तारवती तावद्