________________
ते णं नरयावासा अंतो वट्ठा बहिं तु चउरंसा । हेट्ठा खुरुप्पसंठाणसंठिया परमदुग्गंधा ॥८५॥
असुई निच्चपइट्ठियपूयवसा मंसरुहिरचिक्खिल्ला ।
धूमप्पभाइ किंचि वि जाव निसग्गेण अइउसिणा ॥८६॥ पाठसिद्धे, नवरं मांसवसादिवस्तूनि तत्र परमाधार्मिकप्रवर्तितानि द्रष्टव्यानि, स्वरूपेण तेषां तत्राभावात् । चतुर्थीपश्चम्यादिषु तु परमाधार्मिकरहितामु मांसादिविकुर्वणाभावेऽपि स्वरूपेणैव ते अनन्तगुणदुर्गन्धा भवन्ति । अपरं चाद्यासु तिसृषु पृथ्वीषु चतुर्थ्यां च बहवो नरकावासा धूमप्रभायामपि कियन्तोऽपि नरकावासाः, ते स्वभावेनैवोष्णा भवन्ति, तच्चोषण्यं कियति माने इति वक्ष्यति ॥
परतः का वार्ता इत्याहका परओ निसग्गओ चिय दुस्सहमहासीयवेणाकलिया। निच्चंधयारतमसा नीसेसदुहायरा सव्वे ।
धूमप्रभायाः कियद्योऽपि नरकावासेभ्यः परतो ये तस्यामपि पृथिव्यां नरकावासा ये च षष्ठीसप्तम्योः येऽपि चतुर्थ्यां कियन्तोऽपि नरकावासास्ते स्वभावेनैव दुस्सहमहाशीतवेदनाकलिताः।
.||६१॥