________________
भवत्वेकाकी जीवः, परं य एते शरीरविभवादयः पदार्थाः ते जीवेन सहातिसन्निकृष्टत्वादतिवल्लभत्वाचाभिन्ना भविष्यन्ति, अतस्तदर्थे पापान्यपि करोत्वयं, नैतदेवमित्युपदेष्टुमेकत्वभावनानन्तरमन्यत्वभावनामाह
[अथ अन्यत्वभावना] अन्नं इमं कुडुम्बं अन्ना लच्छी सरीरमवि अन्नं । मोत्तुं जिणिंदधम्मं न भवंतरगामिओ अन्नो ।
प्रकटार्था ॥ किमिति देहादयो जीवादन्ये न तु जीवस्य आत्मभूताः ? इत्याहविन्नाया भावाणं जीवो देहाइयं जडं वत्थु । जीवो भवंतरगई थकति इहेव सेसाई ॥७॥
भावानां-जीवाजीवपुण्यपापादिपदार्थानां विज्ञाता-बोधस्वरूपो जीवः, यत्तु देहधनधान्यादिकं वस्तु तजडम्-अचेतनस्वरूपं, चेतनाचेतनयोश्च कथमेकत्वं स्यादिति भावः । जीवश्च भवान्तरं गच्छति, शेषाणि तु शरीरादीन्यत्रैव तिष्ठन्तीत्यतोऽपि जीवाच्छरीरादयो भिन्नाः, भेदे धेकस्य गमनमपरेषां
चावस्थितिरिति युज्यते, नान्यथेति भावः ॥ अपरमप्यन्यत्वकारणमाह- जीवो निच्चसहावो सेसाणि उ भंगुराणि वत्थूणि । विहवाइ वज्झहेउब्भवं च निरहेउओ जीवो।
नित्यस्वभावो जीवः, कदाचिदप्यविनाशात् , शेषाणि तु शरीरादिवस्तूनि भङ्गुराणि-विनश्वराणि,
॥५१॥