________________
सुचिरं स्थितो यावन्न किंचिजल्पति तावद् भ्रवमुत्क्षिप्य प्रोक्तं राज्ञा-किमिति राज द्वारिको न किंचिजल्पति ? तेनोक्तं-अप्राप्तकालं वचनं, वृहस्पतिरपि वुवन् । अवज्ञां लभते लोकादपमानं च शाश्वतम् ॥१॥ देवेनानुज्ञातैरिदानी विज्ञप्यते, किन्त्वप्रसादो न विधेयो, यत:मुलभाः पुरुषा राजन्नपथ्यप्रियवादिनः । अप्रियस्य तु पथ्यस्य, वक्ता श्रोता च दुर्लभः ॥१॥ वैद्यसांवत्सरामात्याः, यस्य राज्ञः प्रियंवदाः। शरीरधर्मकोशेभ्यः, क्षिप्रं स परिहीयते ॥२॥ नानियुक्तेन वक्तव्यं, व्यवहारे कथंचन । नियुक्तेन तु वक्तव्यमपक्षपतितं वचः ॥३॥ सभायां न प्रवेष्टव्यं, वक्तव्यं नासमञ्जसम् । अब्रुवन् विब्रुवन् वापि, नरो भवति किल्बिषी ॥४॥ तत्र च देव ? मया युष्मदीयदेशं प्रविशता यः प्रजाविरागः श्रुतो, यचापकर्षितवित्तस्य जनस्य दौःस्थ्यमवलोकितं तद्देवस्यापि सर्व विदितमिति संभाव्यते, तत्रेयं नीतिरपि सुपरिचितैव, यथाकामः क्रोधस्तथा लोभो, मानो हर्षों मदस्तथा । षड्वर्गमुत्सृजेदेनं, त्यक्ते तस्मिन् सुखी नृपः॥१॥ अनादेयं न गृह्णीयात् , परिक्षीणोऽपि पार्थिवः। आदेयं न समृद्धोऽपि, सूक्ष्ममप्यर्थमुत्सृजेत् ॥२॥ १. दौवारिको वा.J.॥
॥ २५॥