________________
भवभावना प्रकरणे
-
मरणं चि चिंतंतो तस्स कुभूमीवइस्स बुद्धस्स । दितो अक्कोसेऽवि य छन्नं पयडं च निस्संको ॥८॥ दुट्ठो अमग्गगामी अवयणकारी य मंतिमाईहिं । नाउं मायंगो इव उवेहिओ चेट्टए कुमई ॥९॥ अत्रान्तरे अवध्यापुरीमहाराजेन बहूनां राज्ञां समीपे तदन्तिकेऽपि केनचित्तुच्छप्रयोजनेन निरूपितः - कुलीनः शीलसंपन्नो, वाग्ग्मी दक्षः प्रियंवदः । यथोक्तवादी स्मृतिमान्, दूतः स्यात् सप्तभिर्गुणैः ॥१॥ एतैः सप्तभिर्दृतगुणैर्युक्तो भद्रमूर्तिः बहुपारिच्छदान्वितः समायातः पाटलीपुत्रनगरविषये । तत्र च प्रतिग्रामं प्रतिनगरं प्रतिमानुषं च शृणोति नरेन्द्रं प्रति समाख्यातुमप्यशक्यानि विरक्तप्रजादुर्भा पितानि पश्यति तत्कृतां देशस्यावस्थां, अवलोकयति प्रायः शून्यीभूतानि सर्वस्थानानि । ततः परिव्राजकादिमठादीनपि शून्यान् दृष्टवा चिंतयत्यसौ - नन्वेतैरपि स्वस्थानानि किमिति त्यक्तानि 2, दुष्टोऽपि राजा निरपराधमुनीनां क्षताभावे किं कर्तुमीष्ट ?, अथवा नीतिविरुद्धमेव चिन्तितमिदं मया, यत एवं नीतिः - अपराधो न मेऽस्तीति, नैतद् विश्वासकारणम् । विद्यते हि नृशंसेभ्यो, भयं गुणवतामपि ॥ १ ॥ मुनिरस्मि निरागसः कुतो मे, भयमित्येष न भूतयेऽभिमानः । परवृद्धिषु बद्धमत्सराणां किमित्र यस्ति दुरात्मनामलङध्यम् ॥ २ ॥ इत्यादि विचिंतयन् गतो राज्ञः समीपे । दृष्टो मीलिताशेषद्रविणोऽपि प्रजाविरागहतो निःश्रीको राजा, कृतयथोचितप्रतिपत्तिरुपविष्टस्तदग्रतः । ततः
अशरणभावना
॥ २४ ॥