SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ भवभावना प्रकरणे द्वितीयायां द्वे, तृतीयायां तिस्रः, एवमेकोत्तरवृद्धया यावत् पौर्णमास्यां पंचदश, कृष्क्षपक्षप्रतिपदि च पंचदश दत्तयः कवला वा गृह्यन्ते, द्वितीयायां चतुर्दश इत्येवं यावदमावास्यायामेका दत्तिः कवलो एको गृह्यते इति, मासेनैषा समर्थ्यते । वज्रमध्या तु कृष्णपक्षप्रतिपदि प्रारभ्यते, प्रथमदिने च पञ्चदश दत्तयः कवला वा गृह्यन्ते, तत एकैकहान्या तावन्नीयते यावदमावास्यायां शुक्लपक्षप्रतिपदि चैका दत्तिः कवलो वा एको गृह्यते, ततो द्वितीयाया आरभ्य एकोत्तरवृद्धया तावन्नीयते यावत् पौर्णमास्यां पंचदश दत्तयः कवला वा गृह्यन्त इति, मासेनैषाऽपि समाप्यत इति ॥ अथ सर्वागसुंदरं तपः प्रतिपाद्यते, सर्वागानि सुंदराणि - सौन्दर्योपेतानि भवन्ति यस्मात्तपोविशेपात् असौ सर्वागसुन्दरः तपोविशेषः, स इदानीं प्रतिपाद्यते, तद्यथा - सव्वंगसुंदरतवो कायव्वं होइ सुक्खमि । एत्थ य अडववासा एगंतरिया विज्ञेयत्र्वा ॥१॥ आयंबिलेण विहिणा कायव्वं एत्थ होइ पारणयं । खंतीइ मद्दवाईणऽभिग्गहो एत्थ कायव्वो || २ || अवरद्धे वि न कज्जा कोवाई तह करेज सत्तीए । पूयं जिणाण दाणं च देज्ज जइकिविणमाईणं ॥ ३॥ अस्य च तपसः सर्वागसुन्दरत्वमानुषंगिकमेव फलं, मुख्यं तु सर्वज्ञाज्ञया क्रियमाणानां सर्वेषामेव तपसां मोक्षावाप्तिरेव फलमिति भावनीयम्, एवमुत्तरत्रापि । रुजानां - रोगाणामभावो निरुजं तदेव प्रधानफलविवच्या शिखेव शिखा-चूला यत्रासौ & सर्वागसुंदरादि तपसां विधा - नानि ॥ ४१६ ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy