SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ श्चतस्रः प्रतिमाः प्रतिपाद्यन्ते, तद्यथा-सप्तसप्तमिका अष्टाष्टमिका नवनवमिका दशदशमिका चेति, अत्र आद्या सप्तसप्तमिका क्रियते, एकोनपंचाशद्दिनानीत्यर्थः, तत्राद्यसप्तके प्रतिदिनमेकैका दत्तियते, द्वितीयसप्तके तु प्रतिदिनं दत्तिद्वयं, तृतीयसप्तके प्रतिदिवसं दत्तित्रयं, चतुर्थसप्तके दत्तिचतुष्टयं, एवमेकैकदत्तिवृद्धया तावन्नेयं यावत् सप्तमसप्तके प्रत्यहं दत्तिसप्तकं ग्राय, अत्र स्थापना-७७७७७ द्वितीयाऽष्टाष्टमिका, अष्टौ अष्टकाः क्रियन्ते, चतुःषष्टिर्दिनानीत्यर्थः, अत्रापि प्रथमाष्टके प्रतिदिनमेकैका दत्तिर्गृह्यते, द्वितीयाष्टके द्वे द्वे, एवमेकैकदत्तिवृद्ध-या तावद् नेयं यावदष्टमेऽष्टके प्रतिदिनमष्टौ दत्तयो गृह्यन्ते, अत्र स्थापना-बाबारादाबादाबाट तृतीया नवनवमिका, नव नवका विधीयंते, एका| शीतिदिनानीत्यर्थः, अत्रापि प्रथमनवके प्रतिदिवसमेकैका दत्तिः, एकैकवृद्धया च नवमनवके प्रतिदिनं नव दत्तयः, स्थापना-९।९।९।९।९।९।९।९।९ चतुर्थी दशदशमिका, दश दशकान् यावत् क्रियते, शतं दिनानामित्यर्थः, अत्रापि प्रथमदशके प्रतिदिनमेका दत्तिस्ततश्चैकैकदत्तिवृद्धया दशमदशके प्रतिदिनं दश दश दत्तयः । स्थापना-१०।१०।१०।१०।१०।१०।१०।१०।१०।१० नवभिर्मासैश्चतुविशतिभिर्दिनैश्चतस्रोऽप्येता प्रतिमाः समर्थ्यन्ते । अथ नान्द्रायणं तपः प्रतिपाद्यते, अत्र च भिक्षादत्तिभिः कवलैर्वा यवमध्या वज्रमध्या चेति द्वे प्रतिमे भवतः, तत्र च यवमध्ये शुक्लपक्षप्रतिपदि एका भिक्षादत्तिः कवलो वा एकोऽभिगृह्यते, ॥४१५॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy