________________
भव भावना प्रकरणे
तस्मादेतानि प्राणातिपाताद्याश्रवद्वाराणि तद्विरमणकपाटस्थगनेन संवरणीयान्येव, अन्यथोक्तप्रकारेणाशुभकर्म्माश्रवणाद्, अत आश्रवभावनाऽनन्तरं संवरभावनोच्यते, तत्र प्राणातिपाताश्रवद्वारस्य संवरणोपायमाह
जो सम्मं भूयाईं पेच्छइ भूएस अप्पभूओ य । कम्ममलेण न लिप्पइ सो संवरियासवदुवारो ॥
सामान्य भणनेऽपि प्रक्रमाद्विशेषो द्रष्टव्यः, ततश्च संवृतं तद्विरतिग्रहणेन स्थगितं प्राणातिपातलक्षणं श्रवद्वारं येन स संवृताश्रवद्वारः, अयं च सोऽभिधीयते यः किमित्याह यः सम्यग् भूतानि - पृथिव्यादीनि जीवलक्षणानि प्रेक्षते - आगमश्रवणादिद्वारेण जानाति, ततश्च भूतेष्वात्मभूतो भवति, ज्ञानस्य विरतिफलत्वाद्, भूतानि सर्वाण्यपि आत्मवत् सम्यग् रक्षतीत्यर्थः एवंविधश्च संवृतप्राणातिपाताश्रवद्वारत्वात्तजनितकर्म्ममलेन न लिप्यत इति, तस्मादेतत् परिभाव्येदं कुरु ॥ किमित्याह
हिंसाइ इंदियाई कसायजोगा य भुवणवेरीणि । कम्मासवदाराई रुंभसु जइ सिवसुहं महसि ॥
हिंसादीनि-हिंसामृषास्तेयमैथुनपरिग्रहादीनीत्यर्थः, इंद्रियाणि श्रोत्रचक्षुरादीनि कषायाः -- क्रोधादयो, योगाः- मनोवाक्कायाः, एतानि सर्वाण्यपि नारकाद्यनन्तदुःखहेतुभूतकर्माश्रवणात् कर्माश्रवद्वा
संवर
भाव
नायाः स्वरूपस्य
वर्णनम्
॥ ४०२ ॥