________________
भवभावना प्रकरण
अशरणभावना
जरागृहीतस्य अवश्यमेव प्रायः पुत्रकलत्रादिस्वजनपरिभवः शून्यत्वं वायुः श्लेष्मादयश्च भवन्तीति विवक्षया एते जरासन्यत्वेनोक्ताः, ते च महात्मनामपि बलमभिमानं च खण्डयन्ति, सर्वकार्याक्षमाननादेयांश्च कुर्वन्तीत्यर्थः ॥ जराभीताश्चाविवेकिनस्तन्निवारणऽनुपायान् कुर्वन्तीति दर्शयतिजरभीया य वराया सेवंति रसायणाइकिरियाओ । गोवंति पलियवलिगंडकूवनियजम्ममाईणि । ___ जराभीताश्चाविवेकिनो वराका गन्धकादिरसायनानि सेवन्ते, तैश्च सेवितैरपि जरा नापगच्छति, अपगमे वा समयान्तरे पुनरपि भवतीत्ययमनुपायो,ऽनैकान्तिकत्वादनात्यन्तिकत्वाच । तपःसंयमादिविधानं तु तदपगमे सम्यगुपायो, मोक्षावाप्तौ अवश्यमेव जरोच्छेदहेतुत्वेनैकान्तिकत्वान्मोक्षप्रतिपाताभावेन पुनर्जरायाः सम्भवाभावाचात्यन्तिकत्वाद् , अन्ये तु महामूढा लोहकीटादिखरंटनेन पलितानि गोपायन्ति, वलीश्च वस्त्रादिना गोपायन्ति, गण्डौ-कपोलौ तयोवृद्धत्येन पतितौ कूपौ मौलिवस्त्रादिना वेष्टयन्ति, निजजन्म चिरकालीनमप्यासन्नकालं कथयित्वा गोपायन्ति, आदिशब्दादन्या अप्येवंप्रकारा मोहचेष्टा द्रष्टव्याः ॥ किं पुनस्ते एवं कुर्वन्ति ? न पुनः सम्यगुपाये लगन्तीत्याह१-२. गोपं०-वा॥