________________
इय संखेवेण सुकोसलस्स कहियं मए इमं चरियं । नेयव्वं तं पुण वित्थरस्थिणा पउमचरियाओ॥५४॥
॥ इति सुकोशलराजर्षिकथानकं समाप्तम् ॥ ॥ तत्समाप्तौ च सप्तमी लोकस्वभावभावना समाप्तेति ॥
अथ धर्मध्यानार्थमेवाष्टमी कर्माश्रवभावना प्रारभ्यते, तत्र च संवेगवासनावासितान्तःकरणेन मुमुक्षुणा संसारक्लेशविसरविच्छेदाय सर्वदैवेदं मनसि भावनीयं, किमित्याह| केवलदुहनिम्मविए पडिओ संसारसायरे जीवो । जं अणुहवइ किलेसं तं आसवहेउयं सव्वं ॥४३१ ___ केवलदुःखैर्निर्मापिते-घटिते तदात्मके इत्यर्थः, एतस्मिन् संसारसागरे निपतितो जन्तुर्य रोगजन्म'जरामरणशोकदारिद्रयदौर्भाग्यपरपरिभवविषादादिसम्भवं शारीरं मानसं च क्लेशराशि-दुःखसमुदय- | मनुभवति तं आश्रवति-आदत्ते गृह्णाति यैर्हेतुभूतैरष्टविधं कर्म जीवस्ते आश्रवाः-रागद्वेषकषायेन्द्रियादयस्तद्धेतुकं तत्कारणमिति विज्ञेयमिति ॥ यैर्जीवः कर्माऽऽश्रवति तानाश्रवान स्वत एव दर्शयति-
|| ३४७॥