SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ भय- भावना प्रकरणे वर्णनम रागबोसकसाया पंच पसिद्धाइं इंदियाई च । हिंसालियाइयाणि य आसवदाराई कम्मस्स ॥४३२ . आश्रव * भावना___ आश्रवा एव कर्मकचवरप्रवेशस्य द्वाराणीव द्वाराण्याश्रवद्वाराणि, तद्यथा-मायालोभकषायमिश्र- * स्वरूपपरिणामो रागः, क्रोधमानमिश्रपरिणतिस्तु द्वेषः । उक्तं च-'माया लोभकषायश्चेत्येतद्रागसंज्ञितं द्वन्द्वम् । क्रोधो मानश्च पुनद्वेष इति समासनिर्दिष्टः ॥१॥ (प्रशम०) इति, कषायाः-कोधादयश्चत्वारः, .' स्पर्शनरसनादीनि पंचेन्द्रियाणि प्रसिद्धान्येव, हिंसाऽलीकभाषणादीनि च आदिशब्दाचौर्यमैथुनपरिग्रहरात्रिभोजनमिथ्यात्वाविरतियोगादिपरिग्रहः, एतानि सर्वाण्यपि कर्मण आश्रवद्वाराणि | इदमुक्तं भवति-यथा कस्मिंश्चित् उद्घाटद्वारेऽपवरके मूलद्वारगवाक्षजालकादिभिद्वारैः पवनप्रेरितं रजाकचवरादिकं प्रविशति तथा जीवापवरके रागद्वेषादिभिर्दारैः कर्मरजाकचवरं प्रविशति, सर्वस्यापि कर्मोपादानस्य , तद्धेतुत्वाद् , अत एतानि रागादीन्याश्रवद्वाराणि अभिधीयन्त इति ॥ तत्र रागद्वेषयोराश्रवद्वारत्वं स्वयमेव प्रकटयति रागद्दोसाण धिरत्थु जाण विरसं फलं मुणंतोऽवि। पावेसु रमइ लोओ आउखेज्जो ब्व अहिएसु ॥ ॥ ३४८ ॥
SR No.010801
Book TitleBhav Bhavna Prakaranam Part 02
Original Sutra AuthorN/A
AuthorSubodhchandra Nanalal Shah
PublisherGangabai Jain Charitable Trust Mumbai
Publication Year1986
Total Pages516
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy